पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूर्भुवस्सुवस्सम्यग्नं मया इति त्रिरुपांशुचैव प्रेषमुक्त्वा दक्षिणहस्तेन सकृज्जलं पीत्वा आचम्य तथैवोक्त्वा त्रिर्जलाञ्जलेिं विसृजेत् ॥ ६ ॥ श्रीवंखानसगृह्यसूत्रम् भूरित्यदि । पश्चात् उपवीतादिसंभारान् गृहीत्वा नद्यादिजलाशयं गत्वा संभारान् तीरे विन्यस्य जलं प्रविश्य । ऊध्र्वबाहुसन् प्रेयं- ‘भूर्भुवो मन् उक्त्वा । जलं गृहीत्वाऽमिमन्त्र्य पीत्वा । तथैव-प्रेषमन्त्रमुता । मेखलां चत्वार्युपवीतान्येकं वोपवीतं कृष्णाजिनमृतरीयञ्च पूर्ववद्ददाति ॥ ७ ॥ मेखलामित्यादि । पूर्ववत्-उनयनोक्तवत् । आचार्यो वा गृहस्थो वा ददाति । सोऽपि तन्मात्रमुक्ता धारयेत् । इति वाजपेयीये नवमझे सप्तमः खण्डः।