पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ [

र ३ कालान्तरं कदाचिदपि भोजनं येषां ते कालान्तरभोजिन । एककालिकं नियमानुष्ठानादिकं येषां त एककालिकाः । तथा चतुष्कालिकाः । कंटकाना मुपरि शेरन् इति कंटकशायिनः । वीरासनं वीरशयनञ्च येषां ते वीरासन शायिनः, वीरासन एव शेरन्त इति वा । पञ्चाशीनां मध्ये शेरन्त इति पञ्चाग्निमध्यशायिनः । धूममेवाक्षन्तीति धूमाशिनः। पाषाणानामुपरिशेरते इति पाषाणशायिनः । अभ्य कशिनः-जाग्रत्स्वभावः । उदकुंभे वारिपूर्ण घटादौ वसन्तति उदकुंभवासिनः ! मौनिनः-3भाषमाण.: । चस्समुचये ! अवाचि – अध:कृतानि शिरांसि यैः ते अत्राञ्जछिासः । सूर्य ओलोक्यं तिष्ठन्तीति सूर्यप्रतिमुखाः – ऊध्र्वमुखा ! परिष्टात् प्रसारितकरा ऊध्र्व बाहुकाः । एकेन पादेन स्थितः एकपादस्थिताः तपश्चरन्तः, नित्यमग्रिहस्र प्रमणकवैश्वदेवानाचरन्तः सूर्यग्रयो वा मोक्षं प्रार्थयन्ति । इति वाजपेयीये (चतुर्थ: एटलः) अष्टमः खण्डः ।