पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पैशमास्यां पुष्कलं भक्तमुत्सृज्य अन्यथा शेषान् मासानुपजीव्य तपः कुयोत् || ६ ।। वालिखिल्य इत्यादि । शुष्कलं भक्तमुत्सृज्य ! एतावता कालेन संपाद्य सवितं सर्वं तमिन् दिने उत्सृज्य, शेषान् मासान् – संवत्सरे शिष्टान फाल्गुनान्तान् मासान्, अन्यथा – उञ्छवृत्त्या उपजीव्य तपः कुर्यात् । अस्य सूर्य एवाग्निर्भवतीत्यामनन्ति । ७ ।। अस्येत्यादि । ये एवाग्निरित्यादि । तेषां पक्ष अन्निहोत्र श्रामणकवैश्वदेवादीन् मानसेन सूर्ये एव कुर्यात् । फेनपः उद्देडकः उन्मत्तको निरोधकः शीर्णपतितपत्राहारी चान्द्रायणबतं चरन् पृथिवीशायी नारायणं ध्यायन् । मोक्षमेव प्रार्थयते ।। ७ ।। फेनप इत्यादि । उहंडक इत्यादि लीणि फेनपस्य विशेषणान्यन्वर्थानि । फेनप-पि नित्यमणिरिचय विहिता ज्ञेया । मोक्ष्मेछ – न तु त्रिवीम् । सूत्रम् इति वाजपेयीये अष्टमपक्षे सप्तमः खण्डः ।