पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५२ श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् असपिण्डशवस्येत्यादि । असपिण्डस्य सजातीयस्य विजातीयस्य वा ब्राह्मणस्य असगोक्षस्य प्रेतस्य हादिना खानालंकरणे श्वे सति आशौचं भवतेि इति शेषः नक्षत्वदर्शनात्पूर्व-यावन्नक्षत्रदर्शनम् नक्षत्र छू ग्रामं विशेत् । [सप्सम प्रश्नं राजावित्यादि । रात्रौ चेद्दहनवहनादिकरणं सूर्य दृष्टा ग्रामं प्रविशेदि त्युकं ज्ञेयम् । पश्चात् पञ्चगव्यमाशनमनुष्ठानादिकञ्च कुर्यात् । भृतिमादाय दहनकहनादिकर्तुः सचेलं खानमलं भवति । अन्यथा तद्ग्रामे प्रविष्ट शबभर्तुरेकाई, तद्गृहे प्रविष्ट त्र्यहं, अभ्यथेत्यादि । अन्यथा – एवभकृत्वा । शवभर्तुः – दाहकस्य । तद्गृहे -प्रेतगृहे । तत्र - आशैौचदुद्दे । अत्र विकल्पं केचिद्वदन्ति । अगत्या तद्वहे भुक्तवतः एकरालं अज्ञानाडूक्तवतः तदन्नशुद्धयवकिमाशौचमिति। आशीचिभिस्सह शयनादिभिस्सह सतां तावन्ति दिनान्यौशोच भवति । अस्थिसञ्चयनादर्वाकू ब्राह्मणस्य रुदित्वा स्रायात् । अन्तर्दशाहे वाचमनं कुर्यात्। क्षत्रियवैश्ययोरथिसञ्चयनादर्वाक् ब्राह्मणो रैति चेदेकरात्राशौचं पश्चात् सचेल ज्ञानम् । शविषये अस्थिसञ्चयनादर्वाक् शस्य स्पर्श सति त्रिरात्रमाशौ, तद्रहिते द्विरात्रं पश्चादेकराक्रमाशौचं भवति । हीनवर्णविषये रोदने अदाशौचमुक्तं तदेव भवति । इति वाजपेयीये सप्तमश्ने (पञ्चमः खण्डः) ।