पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमकृित-तात्पर्थचिन्तामणिसहितम् (अध एकोनविंशः वाड:) पर्वणि स्थालीपके हीने इत्यादि । भासे हने प्राजापत्यं षण्मासे चान्द्रायणं संवत्सरे तप्तकृच्छू चरित्वा पूर्ववत्प्रायश्चित्तं कुर्यात् । ब्राहाणान्-चतुः । उद्यतं-शरावपूर्णमन्नम् । आज्यकाभ्यां प्रथमाज्येन प्रायश्चितं हुत्वा पश्चातेन केन च प्रायश्चितमेव जुहुयात् । एवमाज्यचरुभ्यां आज्यमिश्रेण फलेन वा वैश्वदेवादिहोमांश्च यथोक्तं कुर्यात् । संवत्सरे हीन आमयणाष्टकयोः प्राजापत्यचरणं चरूपाकं प्रायश्चित्तहोमांश्च हुत्वा पुनः करणं विहितम् । एवं प्रसिंवत्सरं द्विगुणवृद्धया कर्तव्यमेव । (त्येकेोनविंशः खण्डः) (अथ विंशः खण्डः) डिपितृयज्ञे इत्यादि । षण्मासे हीने प्राजापत्यं संवत्सरे हीने प्राजापत्यद्वयमेवं द्विगुणवृद्धया प्रायश्चितं कृत्वा पूर्ववत् पिंड पितृयज्ञे मसिश्राद्धश्च कुर्यात् । चैत्रीयज्ञविहीने इत्यादि । संवत्सरेऽतीते मयब्दं द्विगुणवृद्धिस्सर्वतोः । एवं नित्यानां पाकयज्ञानामधूतानां प्रत्येकं प्रायश्चितं हुत्वा याकजीवं यजेत । द्वादशाहेऽतीते इति । एवं मासान्तं कर्तव्यम् । एवं द्विगुणादिवृद्धध संवत्सरान्तं, प्रायब्दञ्च प्रायश्चितं हुत्वा पूर्ववदभ्यध्यै निवेदयेत् । इत्यष्टमः पटलः (इनि शिः खण्डः)