पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अथ षष्ठः खण्डः) सामान्यायश्चित्तम् ! मुख्यतया कर्नन्यविान् प्रायश्चित्तस्य पूर्वमुक्तमित्युक्तं भवति । सर्वेषां कालातीतसंस्काराणां इदं प्राय धितं समानमित्यर्थः । विष्णोर्नुकादीन् द्विवत्यै प्रत्येकं हुत्वा पूर्ववत्तत्कर्म कुर्यादिति केचित् । अथ वा इत्यादि । तत्र किल्पोऽप्यतीति वदति । उभ्यने यावता कालेन क्रियते तावता गर्भाधानादि चैोलकान्तेष्वेकादशः संस्कारेषु हीनेषु-अकृतेषु सत्सु तन्त्रयित्वा-उपनयनेन सह समुचित्य एकस्मिन्नेव उपनयनविहितप्रधानहोमे कालातीतानषुि कर्तृ शक्यत इति । चान्द्रायाम् । तच द्विविध यवभध्यचान्द्रायणं, पिप्पलेिमध्यचान्द्रायणमिलि ! तत्र प्रथमे यथा शुप्रतिपदमारभ्य शिस्यापरिमितैरेकैकशासवृद्धया पौर्णमास्यन्तमाहारं भुञ्जन् युनः कृष्णपक्षतिपदभारभ्य तद्वदेकैकआसहासेन चरन् अमावास्याया मनझन् वर्तेतेति । तथा द्वितीये प्रतिदिनं मध्याहे अष्टकबलान्, अथ वा नक्त दिवा च चतुरश्चतुरः, अथवा एकस्मिन् दिवसे चतुः परमितू द्वादश फ-लानश्नन् ब्रतं चरेदियुक्तरीतिः । प्रत्यहं मध्यंदिने हविष्यानष्टों पिंडान् भुक्ता यद्दतमाचरेतद्यचिान्द्रायणं, प्रतिदिनं प्राश्नुरः पिंडान् अस्तमिते आदित्ये चतुरः िपंडान् भुक्ता यचरति तच्छिशुचान्द्रायणं, प्रतिदिनं दिवैव त्रीन् पिंडान् प्राश्य नियतात्मा यचरति तद्वचिान्द्रायणमिति । एतेषां मध्ये यत्किं मपि वतं पिता चरति । प्राजापूयम्-कृच्छूविशेषः । तथा पञ्चआसैरेकभुक्तं द्वादशश्रासैर्नक्तं चतुर्वेिशयिासैरयाचितं एवाहमुपवास इति पराशरोक्तप्रकारेण वा अन्येन वा एकभक्तायाचितोपवासरूपेण चतुरहस्साध्य पादकृच्छूः । एवं त्रिगुणं प्राजापत्यं विदिनमेकभक्त ििद्दन नक्तं त्रिदिनमयाचितं त्रिदिनमुपवास इत्येतत् प्राजापत्यमित्यापस्तंबः । मनुश्च तथा वदति। तत्प्रजापत्यं कृच्छ्र पुत्रश्चरेत् । अशक्तो धेनुमाचार्याय दद्यात् । द्वादशसंख्याब्राह्मणभोजनमेकमन्न कृच्छूम् । विगुञ्जाभिस्तुलितं सुवर्णमिति तद्दानं सुवर्णकृच्छूम् । पशुः-सवत्सा गैः। एतानि दानानि यथाशक्ति दद्यात् । गर्भाधानादीन्- आदिशब्देन तत्तत्कर्मनाझा संकल्प्य आदिपरिषेकं, परिसमाप्तौ न्तपरिषेकं च कुर्यात् । आघारोऽन्तहोम चैको भवति । इति तृतीय: पूटलः (इति षष्ठः खण्डः)।