पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ श्री श्रीनिवासभखिकृत-तात्पर्थचिन्तामणिसहितम् आझेयाद्युक्तहोमान् कुर्वीत ! खाल्यन्तरस्थमाग्रयणदेवताभ्यो जुहुयात्, पूर्ववदाग्रयणमित्युक्तत्वात् 'इत्युक्तामयणाशक्तौ वैश्वदेवावशेक्तिम् । ब्राह्मणेभ्योऽथ वा दत्वा नवान्ने भोजयेत्सदा । नवैरय्याद्यष्टहोमो नित्यहोममथापि वा । अतिप्तैौ बहूनान्तु प्रायश्चितन्तु षड्गुणम्' । इति यथोक्तङ्काले अष्टकाहोमं हुत्वा पितृभ्यः पिंडं निरुप्य ब्राक्ष णान् भोजयेत् ॥ ६ ॥ अथवा अष्टकेति ब्राह्मणान् भोजयेत् ॥ ७ ॥ उद्यतं वा ददाति ॥ ८ ॥ उद्यतं वेत्यादि । सव्यंजनभामं वा दद्यात् । देवतातिथिीनां शिशुदारोपकारकम् । स्वोद्दिष्टस्य च यत्तस्मात् कादामं विशिष्यते । इति स्तुतिपरम् । अष्टकाहीने वैश्वदेवपैतृकैौ द्वैौ चरू पक्त्वा आज्यपक्षाभ्यां वैश्वदेवं वैष्णवं रौद्रं याम्यं पैतृकहोमश्च त्रिरावत्यै हुत्वा अष्टकां [षष्ठ प्रश्ने अष्टकेत्यादि । होमं हुत्वा पिंड िनरुप्य ब्राक्षणान् भोजयेत्, इदमुत्तमम्। केवलं ब्राह्मणान् भोजयेत्, इदं मध्यमम् । उद्यतं दद्यात्, इदमधमम् । होमादिकं प्राचीनावीतिना कार्यम् । ब्रह्मतिक्रमे षड्गुणम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदाताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्ताभणैौ षष्ठप्रश्ने एकोनविंशः खण्डः ।

  • अत्र ग्रन्धपातो दृश्यते !