पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१२ स्मृत्यन्तरे छी श्रीनिवासमखिकृस-तात्पर्यचिन्तामणिसहितम् चेलचर्मामिषाणाञ्च त्रिरात्रं स्यादभोजनम् । मणिमुक्तामवालानां ताम्रस्य रजतस्य च अय:कांस्योपलानाञ्च द्वादशाहं कृणान्नता । कार्पासकीटजोर्णानां शिफैकशफस्य च । पक्षिगन्धौषधीनाञ्च रज्ज्वाधव यहं पयः । एतैत्रेतैरपोहेत पापं स्तेयकृतं द्विजः । अगम्यागमनीयन्तु ब्रतैरेतैरपानुदत् । गुरुतल्पवतं कुर्याद्रेतस्सूिक्ता स्वयोनिषु । सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्यजासु च । पैतृष्वसेयीं भगिनीं स्वस्रीयां मातुरेव तु । [षष्ठ प्रश्ने एतस्तिन्नस्तु भार्याथेनोपयच्छेत बुद्धिमान् । ज्ञातित्वेनानुपेयाताः पतति खुपयन्धः । अमानुषीषु पुरुष उदक्यायामयोनिषु । रेतस्सिक्ता जले चैव कृळू सान्तपनं चरेत् । (राज्ञीं प्रव्रजितां धात्रीं साध्वीं वर्णोत्तमामपि ।। कृच्छद्भयं प्रकुर्वीत सगोत्रामधिगम्य च । चंडालभेदश्वफ्चकपालवतधारिणाम् अकामा थाः स्त्रियो गत्वा परार्क ब्रतमाचरेत्) । मैथुनन्तु समासेव्य पुंसि योिित वा द्विजः । गोयानेऽप्सु दिवा चैव सवासाः खानमाचरेत्' । इति 'अष्टम्याश् चतुर्दश्यां द्विा पर्वणेि मैथुनम् । कृत्वा सचेलं ज्ञात्वा तु वारुणीञ्च जपेडुधः ।।