पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुशः खण् मनुः---- औीवैखानसगृह्यसूत्रम् चरेत्सान्तपनं काष्ठ प्राजापत्यतु लैौष्टके । तप्तकृच्छून्तु पाधणे शखपातेऽकृिच्छूकम् । तप्तकृच्छे भवन्यष्टावतिकृच्छे श्रयोदश' । इति जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया । चरेत्सान्तपनं कृच्छू माजाध्यमनिच्छया । संकरात्रवृत्याशु मासं शोधनमैन्दवम् । मलेिनीकरणीयेषु तप्तस्माद्यावकस्यहम् । तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु वोडशः । अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः । वृषभैकसहसा गा दद्यात्सुचरितक्रतः । वसन् दूरतरे मामात् वृक्षभूलनिकेतनः । एतदेव चरेद्ब्दं प्रायश्चित्तं द्विजोत्तमः । प्रभाप्य वैश्यं वृत्तस्थं दद्याचैकशतं गवाम् । एतदेव व्रतं कृत्लं षण्मासान् शूद्रहा चरेत् । वृषमैकादशा चापि दद्याद्विप्राय गास्सितः । चान्द्रायणं चरेत्सर्वानपकृष्टान्निहत्य तु । शूद्रोऽधिकारहीनोऽपि कालेनानेन शुद्धयति । मार्जारं नकुलं हत्वा चा मंडूकमेव च । पयः िपबतिरात्रं वा योजनं वाऽध्वनो व्रजेत्। उपस्पृशेत्सक्न्यां वा सूक्त वाऽब्दैवतं जपेत् ।