पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तमः खण्डः ब्राह्मण्यां ब्राह्मणात् जातमात्रे ब्राह्मणस्य प्रथमं जन्म स्यात् ॥ १ उपनयनसंस्कारे द्वितीयं भवति ।। २ ।। द्वितीये जन्मन्याषायेः पिता सावित्री माता । द्वाभ्यां जन्मभ्यां द्विजो भवतेि ।। ३ ।। 'अष्टवर्ष ब्राक्षणमुपनीत’ इति श्रुतिः ॥ ४ ॥ तस्माद्भर्भाधानाद्यष्टमे वर्षे ब्राह्मणस्योपनयनं श्रेष्ठम् । तदसंभवे नभे दशमे वाप्याषोडशाः कुर्यात् ।। ५ ।। षोडशे वर्षेऽतीते पूर्वोक्तमुद्दालकप्रायश्चित्तं गर्भाधानादिसंस्का रश्च कृत्वा शुद्धे ब्राह्मणभोजनसुवर्णपशुदानानेि कुर्यात् ।। ६ । पिता चान्द्रायणं चरित्वा तस्य जानकाशिमाधाय आधारं हुत्वा मन्दाहुती पूर्णाहुती ब्राझं वैष्णवश्चाष्टात्मावत्यै हुत्वा पूर्व वदुपनयनं कुर्यात् ॥ ७ ॥ पेित्यादि । अष्टातं - अष्टोत्तरशतमित्यर्थः ! आवत् हुत्वा । इदमेव भूत्यस्तोभोपलक्षणम् । पितृभ्रातृ ज्ञाति सगोत्र मातुलादिषु यः शुचिर्विद्वानुपनयनं करोति ।। ८ ॥ अन्यथा भुलान्धकारौ तेन योजयति ॥ ९ ॥ अन्यथेत्यादि । अन्यथा -उक्तप्रकारसंस्कारविशेषाभावे ! मलान्ध - कारौ तेन कुमारेण योजयति ।