पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थ: क्षण्ड:]] दैविकपैतृकाणि खाध्यापदान्प्रतिग्रहाणि च वर्जयति ॥३! सुमन्तुः – लाबालिः – संवतं:- बुहस्पतिः - मनुपराशारौ – संबर्तः– पिंडोदकक्रियावन्तो होमदानप्रतिग्रहम् । न कुर्याद्याक्दाशैौचं स्वाध्यायश्च सुरार्चनम् ' । इति 'दशरात्रेण शुद्धत वैश्वदेविवर्जितः । होमस्तत्र तु कर्तव्यः शुष्कान्नेन फलेन वा । पञ्चयज्ञविधानन्तु न कुर्यान्मृतिजन्मनोः' । इति 'सन्ध्यां पञ्चमहायज्ञान् न त्यजेत्स्मार्तकर्म च । तन्मध्ये हापयेदेषां दशाहान्ते पुनः क्रिया । स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके । श्रौते कर्मणि तत्कर्म झानतश्शुद्धिमाप्नुयात् । होममालवन्तु कुर्वीत शुष्कान्नेन फलेन वा । पञ्चयज्ञविधान्तु न कुर्यान्मृतिजन्मनेः' । इति ‘पोर्दशाहमासीत वैश्वदेविविर्जतः' । इति 'सूतके मृतके चैव अशक्तौ श्राद्धभोजने । प्रवासादि निमित्ते च 'मृतबन्धोर्दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो होमस्वाध्यायश्च निवर्तते । । इति ‘विप्रो दशाहभासीत दानाध्ययनवर्जित । अकालमृत्योः शान्त्यथै महादाने च रोगिणाम् । स्वस्थकाले त्विदं सर्वं सूतकं समुदाहृतम् । आपद्भतस्य विप्रस्य सूतकेऽपि न सूतकम्' ।।