पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् ५१५ नेत्यादि । आसन्ने मुहूर्ते वस्राभरणगन्धमाल्याचैरलंकृतो बरः वाहनं रथमश्च गज मान्दोलिकां वा श्रलंकृत्य समावर्तनोक्तमन्त्रैः अध्यारुढो बान्धवैः सह पुण्यपण्यांग नादिभिक्षुिदण्डकदलीक्रमुकनारिकैलादिशोभनद्रव्यमारिणीभिश्च सह मंगलगीत वाद्योषणपुरस्सरं कनिक्रदादिवेदवादनसमन्वितः कन्यागृहं गच्छेत् । आगतं वरं कन्याप्रदः प्राङ्मुखमासयित्वा समावर्तनोक्तवत् मधुपर्कमाचमनान्तं कृत्वा कन्यादानं करिष्य इति संकल्प्य यस्राभरणादिना यथाशक्तयलंकृतां कल्यामुन्नतासनस्थां प्रत्यङ्मुखीं कारयेत् । वस्तां कन्यामीक्षित्वा-समीक्ष्य कन्थया स्वयमीक्ष्यमाणः प्रतिवीक्षितस्सन् आसीत । गुरुणा आचार्येण अभिमुखे कृते आघारे कृते सतेि उदकेन तां कन्यामाहरते–प्रतिगृहाति । कन्यामदः उदङ्मुखः प्राङ्मुखाय वराय प्रत्यङ्मुखीं कन्यां तोयधारापुरस्सरं ददाति । 'केशवशर्मणो नप्त्रे नाराणशर्मणः पौत्राय माधवशर्मणः पुत्राय भारद्वाजगोत्राय गोविन्दार्मणे क्राथ-विष्णुशर्मणो नष्टीं मधुसूदनशर्मणः पैौत्रीं त्रिविक्रमशर्मणः मम पुत्रः भार्गवोतीं श्रीदेवीनाम्रीं कन्यां सालंकारां धर्मप्रजासंपत्त्यर्थं ब्रह्मतृप्यै ददामि ? इत्येवं :िकृत्वः उच्चार्ये साक्षतहिरण्य तोयधारां वरस्य हस्ते दद्यात् । स वरः 'अजातिः स्य ' मित्युदकधारापुरस्सरं कन्यां प्रतिगृह्णाति । दानफलसिद्धयर्थ यथाशक्ति दक्षिणाञ्च ददामि इत्येतद्विधानं बाह्मदैवप्राजापत्यानामेव । आर्षादिविवाहेषु प्रकारान्तरमाह, वस्रगन्धाभरण दीनीति । आदिशब्देन पुष्पदामाक्षतकदलीनारिकेलादिमंगलद्रव्याणि गृह्यन्ते । पात्रेष्वेतानि संभृत्य पुण्यपण्यांगनादिभिर्वाहयित्वा कन्यागृहं बान्धवैस्सहितो गत्वा अन्तः प्रविश्य मधुपर्क गृहीत्वा पूर्वधन्योन्याभिवीक्षणं च कृत्वा 'तेज आयु' रिति वस्त्रादिना तामलंकृत्य प्रजापतिस्सोममित्या भरणमंगलसूत्रादिकमारोप्य पूर्ववत् हरणम् (इतेि द्वितीयः खण्डः) (अथ तृतीयः स्खण्डः) ततः सहस्रालाया वध्वा इत्यादि । एवं कृत्वा वरो वध्वा उत्तरतस्तिष्ठन् समाबर्तनकालधृतमेखलाजिने विसृज्य आचाब द्वितीययज्ञेो पवीतं धृत्वा। ततः, अनन्तरं जाथापती शानं कुर्यातम् । अवगाहनलाने कर्तुमशक्याधेत उभयोर्मन्वानम् । आत्मना सह लातायाः नश्वाः । यत्र