पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवाजपेयीयभाष्यसंग्रहः- तृतीय प्रश्न: प्रथम: पटल; (प्रथमः खण्डः) अथातः पाणिग्रहणम् । अतः-यतः ऋणत्रयापकरणं विवाहसंस्कारेणैव साध्यं पूर्वं चोदितं--अत इत्यर्थः । धर्मे एवमुक्तम् । 'अन्यथै पुत्रार्थञ्च ब्राह्मणादिषु चतुर्ष पूर्वालाभे परेण ब्राह्मणो विवाहं कुर्यात् । आयुरादिष्वसत्पुत्रा जायन्ते । तस्मादासुरेण गान्धर्वेण वा विवाहे कृते चान्द्रायणं चरित्वा अग्रिमाधाय ब्राह्म त्रयशिद्वैष्णवं सावित्रीमाग्नेयं शैतमावत्यै हुत्वा ब्राह्मादिष्वेकेन पुनर्विवाहं कुर्यात् । आयुराद्विगुणं गान्धवें गन्धर्वाद्विगुणं राक्षसे राक्षसाद्विगुणं पैशाचे प्रायश्चितं करोति । आसुरादैः शतैः क्षत्रियवैश्यौ विवाहं कुर्याताम् ! पूर्वेषामभावे परेण । 'ब्राह्मणेना सुरगान्धवौं च ििवना फर्तव्यत्येिके । होमं हुत्वा राक्षसपैशाचौ वेत्यपरे। इत्यादि । आर्षादि विवाहेषु पर्वभेदेन फलतारतम्यमाह 'यस्मात् त्रीन् पूर्वा' नित्यादिना युक्रमेण । सर्वत्र 'आत्मान'मिति संबद्धयते । पावयेत्-तारयेत्, स्वर्गस्थान् कुर्यादित्यर्थः । इति प्रथमः पटलः (इति प्रथमः खडः) अथ द्वितीयः पटल: (अथ द्वितीयः खण्डः) मतुस्सपिंडानित्यादि । पुरुषस्य सपिंडता षष्ठपुरुषावधिः कन्यायाः त्रिपुरुषावधि रिति सूत्रकारः । सपिंडव्यतिरिक्ता असपिंडा:! लक्षणसंपन्नां सामुद्रिकशास्रोक्तशुभचिद्वैर्युक्ताम्। ननि कामिति वयोवाथोच्यते अष्टवर्षा-नववर्षा वेति। तदलाभे गौरीं वा अनाप्तार्तवां दशवर्षामेकादशवर्षा वा कन्यकां बयित्वा। ब्राह्मविधानेन विवाहकालात् प्रागेव शुभे मुद्दतें अलंकृत्य पुण्याहं वाचयित्वा ब्राह्मणसन्निधौ इदमित्थमिति परस्परयुभय वादिनै संभाप्य देवदत्पुत्राय भार्गवोत्राय यज्ञदत्तशर्मणे वराय इमां कन्यकां दास्यामीति कन्यापिता-यज्ञदत्तसुतां काश्यपगोत्रां श्रीदेवीनान्नीमिमां कन्यां वृणे मम पुत्रायेति वरपिता च अंगुलीयकं पुष्पमालिकां वा दद्यात् । पञ्चाहेषु-प्रात स्संगादिभेदेन पञ्चधा विभक्त शुभ समये ! परिशुद्धयै-पावनार्थं वधूगृहेभूतं महान्तमोदनं सपिंडे; कंन्याप्तुिः ज्ञातिभिः सह एकपंक्तयां वरपिता भुञ्जीत । यस्मादित्यादि । यस्मात् स वंशः पूतो भवति तस्मात् भोजनमुक्तम् । कनेिकदादि