पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१० श्रो श्रीनिवाझमखिकृत -तात्पर्यचिन्ताभणिसहिलम् शेषमपि तत्र निक्षिपति । सर्वत्र आगलाद्वपति । नाधो जात्रोः । कक्षादिं न पति । शरावभुदुबरमूले गोष्ट वा गृहयेत् । वपनं शिखां भुवै च वर्जयित्वा पादनखपर्यन्तं भवति । शात्वेत्यादि । नद्यादिषु सात्वा कृताचमनं पूर्वेद्यु सातेिन कुंभतोयेन लापयित्वा आचन्तं पुण्याहं वाचयित्वा कुमारःसह कृतभोजनं यजमानस्य दक्षिणपार्श्व आरयित्वा वस्त्रं ददातीत्यन्वय । ‘य आकृन्तन्' इति मन्त्रं वाचयित्वा अन्तःपुच्छ कौपीनं, धारयित्वा वभ्रभावेष्टयति । तथा मेखलां तन्मन्त्रं वाचयित्वा त्रिः परिवीय आर्षक्रमेण परिवेष्टय ग्रन्थि कृत्वा अग्रमुपगृहयति । उत्तरीय-संव्यानम् । 'फरीद' मन्त्रं परिहितवासोऽनुमन्त्र णार्थे बोधायनेनोक्तः । तत्तन्मन्त्रं वाचयित्वा यज्ञोपवीतदिधारणम् । कृष्णा जिनमुपवीतवत् धार्यम् । पूर्वमिव पवित्रमपि धारयति' (इति पञ्चमः खण्डः) (अथ षष्ठः खड:) ततः – आसन्न सुहृत सदस्येरनुज्ञातः पाहू कुमारस्य बाहू दक्षिणवामहस्तौ, स्वस्य दक्षिणोत्तराभ्यां पाणिभ्यामालभ्य संगृह्य उत्तरे स्वस्योत्तरे पार्श्व प्राङ्मुखो गुरुः प्राङ्मुखं कुमारमुपनयीत-समीपं नयेत् । विसर्जयति मन्त्रान्ते । आचारं—ब्रह्मचर्यधर्मान् शिक्ष्यति। हृदयं-हृदयस्पर्शनं हृदयदेशम्पर्शनम् । प्रशंसति - मंगलानि प्रयुक्त । आचारशिक्षणे यथामन्त्र लिंगं प्रत्युत्तरमपि वाचयति । असाविति संबुद्धया टोर्नामनिर्देशः । 'असाव पोशान' इत्युक्त-'अपोऽक्षामि तथा' इति प्रतिवचनम् । समिध आधेहि आदधामि । कर्म कुरु-कर्म करोमि । मा दिवा स्वप्सी:-न स्वपामि िदवा भैक्षाचर्य चर-भैक्षां चरमि। सदाऽरण्यात्समिध आह-आहरामि। उदकुंभश्चाहर आहरामि । आचार्याधीनो वेदमधीष्व- अध्येष्ये। मम हृदयं हृदयं तेऽस्तु तथाऽस्तु । मम चेितं चितेनान्वेहि-अनुगच्छामि । मम वाचमेकमना जुषस्व जुषे| बृहस्पतिस्त्वां नियुनक्त मह्यम् – तथाऽस्तु । मामेवानु संरभस्व । संरमे । मयि िवानि सन्तु ते – सन्तु । मयि सामीप्यमस्तु ते--अस्तु । मह्य वाक् नियच्छताम्-नियच्छामि । प्राणानां ग्रन्थिरसेि – अस्मि । स मा विस्रस: -- न विस्रसानि । सर्वत्र 'तथा करोमि इति वा प्रतिवचनम् । कनिष्ठाधंगुल्यग्राणां पर्यायेण-क्रमात ग्रहण, तथा विसर्जनञ्च । प्रदक्षिणमझेः प्रणामञ्च कारयित्वा