पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अनुमान् दक्षिणागिर्यथाशक्ति संभाश्च तैरनुज्ञातः तां असिरां अभिमृश्य पाणिना संम्पृश्य अभिमन्थ प्रसेिलर रक्षार्थे पुरुषस्य दक्षिणहस्ते स्त्रीणां वामहस्ते च प्तातेि । पूर्वं नान्दीमुखेभ्यः पितृभ्यस्वधा नमः इत्यादिभिर्मन्त्रैः पित्रादीनां विसर्जनम् । ते च स्वधाऽस्त्विति प्रतिदेयुः । ततः वेिश्वेभ्यो देवेभ्यः स्वाहा नमः इति विश्वेदेवविसर्जनञ्च कार्यम् । ते च स्वाहाऽस्त्विति प्रतिबूयुः । तेन मन्त्रवत्साधितेन कुंभंजलेन अपरेद्युः यजमानः स्राथात्- कर्मान्ते कौतुकं त्यक्ता स्रायात् । तन्मध्ये तद्विनाशे पृष्याहान्ते पूर्ववत् बन्धयेत्।। खानं नियतं-"पाप्मनो ऽहत्या' इति वचनात् । यद्वा-तट्टानीमेव'य सुगन्धा सा वर्णा इति कुंभजलेना भ्युक्षणं कुर्यात् । तथा श्रौते वक्ष्यते । इति प्रथमः पटलः (इति िद्वतीयः खंड) ५ अथ द्वितीयः पटल: (अथ तृतीयः खण्डः) अथ गर्भाधानादीत्यादि । सर्वा श्रमाणामादित्वादुपनयनस्य उद्देशक्रममुष्य आदावुपनयनोपदेशः । उपनीतयैव कर्माधिकार इति ज्ञापनार्थम् । गर्भाधानकालमारभ्य पञ्चमे वर्षे ब्रह्मवर्चसकामं पुत्रमुपन्यीत ब्राह्मणः । तथा अष्टमे नवमे च कामनाभेदे कुर्यात् । ततो विकल्पोक्तिः । सकामकामं वा गर्भाष्टम एवोपनयीत । 'अष्टमे ब्राह्मणमुपनयीत इति श्रुतिः । 'गायत्र्या ब्राह्मणमसृजत' इति गायच्या: प्रथमपादाक्षरसंख्ल्याकालः प्रतिपादितः । सप्तमे अष्टमाक्षरस्य संग्रहृदर्शनात् गर्भाधानाद्यष्टमे वर्षे इत्युक्तम्। सन्ते इति । बलाबलमविचिन्त्य कुर्यात्-श्रुत्युक्तत्वात् । अन्यत्र गुरुबलान्वित एव काले उपनयीत । तद्वत् क्षत्रियवैश्ययो । “ सप्तमे प्रह्मवर्चसकामष्टम् आयुष्कामं नवमे तेजस्कामं दशमे अन्नाद्यकाभमेकाड्शे इन्द्रियकामं द्वादशे पशुकामं त्रयोदशे मेधाकामं चतुर्दशे पुष्टिकामं पञ्चदशे भ्रातृव्यवन्तं घोडशे सर्वकाम । मित्यापस्तंबः । 'सप्तमे ब्राह्मणस्य नवमे राजन्यस्य एकादशे वैश्यस्य इति पैठीनसिः । पञ्चमे ब्राह्मणमुपनयीत. गर्भाष्टमे वा, राजन्यस् गर्भद्वादशे वैश्यस्य गर्भपोडशे वा ? इति गौतमः । 'पञ्चमे नवो वा ब्राह्मणस्य षष्ठ द्वादशे वा राजन्यस्य अष्टमे चतुर्दशे वा वैश्यस्व ? इत्यगिराः | मुख्यालासंभवे काला वधिमाह-आषोडशादित्यादिना । बाशब्दः गैौणत्वबोधनार्थः । अतीते -गौण