पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतनः लण्: श्रीवैक्षानसगृह्यसूत्रम् 'पण्मासान् वर्जयेत् क्षौरं तैलतांबूलयोषितः । ज्येष्ठादीनां मृतौ प्राप्ते मातापित्रोस्तु वत्सरम्' । इति एतन्मर्वभकृत्सपिंडीकरणाविषयन् । कृते सपिंडीकरणे च पित्रोः न ब्रह्मचर्यं परिरक्षणीयम् । तद्रक्ष्णे चापि महत्फलं स्यात् निवर्तमे च स्वलने न दोषः' इति स्मत्यन्तरे :- 'सपिंडीकरणे यावत्तावद्द्धादि नेष्यते । तत्सोदरस्य पुत्रस्य न त्वन्यस्य सगोत्रिण ' । । इति संग्रहें:- 'अकृतप्रेतकार्ये तु न कुर्यादात्मनः शुभम् । कुर्यादेव शुभं कर्म मुल्यकर्तुश्च सन्निधौ । सपिंडीकरणश्राद्धभकृत्वा शुभकर्मकृत् । ध्रुवमामोति नरकं सर्पिडानां मृतौ क्रमात् । असर्पिडीकृते प्रते पितृत्वं नोपपद्यते । न च नैमित्तिकं काम्बमिष्टापूर्तादिकं न च । नित्यकर्माणेि कुलति स्मृत्युक्तानेि तथैव च । वंशजानामसंस्कारे त्वाशैौवन्तु कथं भवेत् । दशाहात्परतश्शुद्धिः ज्ञातीनाञ्च विशेषतः । गर्भादिाशनान्तानि प्राप्तकालं न लंघयेत् । ज्ञातीनां प्रेतकार्याणि अकुर्वन्नपि कारयेत् । ग्रात्रादीनां प्रमीतानां लयाणान्तु सपिंडनम् ।। कृत्वा तु मंगलं कार्य नेतरेषां कथञ्चन ? इति । 'सर्पिडीकरणात्पूर्वं शोभनं न विधीयते । यदि वेत्तत्कृतं कर्म कर्तुनशाय कल्पते । न कुर्यातिकार्याणि नित्यनैमितिकान्यपि ।। ७७३