पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5 5प्रम नपल्यः सोदरः पिनेः अत्रं च गुरवः स्मृतः । इत्युक्तानां ग्राहकम् । पित्रादीनां प्रणामं काश्यन् ! पादोदकं पित्रार्दीनां पादोदकं । ऋद्वा विोस्तद्भक्तानां वा । पिबेत्पादोदकं यस्तु वैष्णवानां माप वा । न तलाचमनं कुर्यात् यथा सोमे द्विजोत्तमः । विष्णोः पादोदकं देचि शिरसा धारयन् पिन् । यो नरो वसुधे! नित्थं स याति परमां गतिम्' । इति अथ पूर्ववद् सगुडभक्षस्यान्नस्य सपिंडैः श्रोत्रेिवैस्सह भोजनं स्वस्तिवाचकम् ॥ १४ ।। अथेत्यादि । पाठक्रमादर्थक्रमो बलीयानिति पुण्याहानन्तरं (स्वस्ति वाचनानन्तरं) भोजनम् । पिंडवर्धनमिति बिज्ञायते ।। १५ ।। पिंडवर्धनमित्यादि । प्रोप्यागतमित्यारभ्य पिंडवर्धनमिति केचिद्वदन्ति । अव्यवधानेनोक्तत्वात् पुण्याहं द्वजभोजनं च पिण्डनर्धनमिति केचित् । पिंडशब्देन शरीरभुच्यते । श्रीविष्णूपुराणे- 'पिंडः पृथग्यतः पुंसः शिरःपाण्थादिलक्षणः इति । समस्तदोषनिरसनद्वारा आयुष्यभिवृद्धिरिति यावत् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्थसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वला विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तभणौ तृतीयपक्षे द्वाविंशः खण्डः ।