पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् ४९५७ धातादिमूलहोमं पूर्ववत् त्रिवृत्प्राशनम् ।। ३ ।। धातादीति । पूर्वजन् जातकर्मवत् । प्राइमुखं मंगलयुः कुमारं विष्टरमारोप्, ‘भूरपामिति पायसम्म प्राशयेत् ।। ४ ।। योगे येोगे तवस्तर'मित्याचमनं ददाति ।। ५ ।। आश्वलायनः । ‘षष्ठ मास्यन्नप्राशनमाजमन्नाद्यकामः तृतीये ब्रह्मवर्चस कामः घृतोदने तेजस्कामः दधिमधुघृतं (श्रम) मिश्रमत्रं प्राशयेत् ।' इति मार्कडेयः- 'देवतापुतस्तस्य धात्र्यु अलंकृतस्य दातव्यमत्रं पात्रेऽथ कांचने ।। मध्वाज्यकनकोपेतं पायवेत्पायसं तन्नः । तस्थाश्रतोऽथ विन्यस्य शिल्पभांडानि सर्वशः । शाणि चैव वस्त्राणि नतः पश्येतु लक्षणम् । प्रथमं यत्स्पृशेद्धालततो भाण्डं स्वयं तथा । जीविका तस्य वालय तेनैव तु भविष्यति' । इति अथ प्रवासागमनम् ॥ ६ ॥ अथेत्यादि । अथ अन्नप्राशनानन्तरम् । प्रधामागमनम्--बाल ग्रहादिदोषनिवारणार्थ तदधिपस्य स्कन्दस्य पूजामुद्दिश्य गत्वा आगमनम् । 'सेनानीनामहं स्कन्दः' इति भगवतैवोक्तत्वात् । 'एवं मातृगणाः प्रेक्ताः पुरुषाश्चैव थे श्रहाः । संबं स्कन्दग्रह्वा नाम ज्ञया नित्यं शारीरि:ि । तेषां प्रशमनं कुर्यात् लानं धूर्य तथा जपम् । बलिक्रमोपहारैश्च स्कन्दस्येच्या विशेषतः । एवमेवार्चितासवें प्रयच्छन्ति शुभं नृणाम् ।