पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगह्यसूत्रम् मस्तिष्कमेिति विज्ञेयः प्रणामः प्रथमः स्मृतः । तथा ध्यायन् हृदा देवं हृदयेऽञ्जलिसंयुतम् । क्रियमाणेो नमस्कारः सपुटः परिकीर्तितः । अंजलिं हृदये कृत्वा नतकायेन भक्तितः । क्रियते यो नमस्कारः प्रांगस्स उदाहृतः । दंडवत् शयनं भूमौ अंजलिं संपसार्य च । वंडनामा प्रणामस्स विचिन्त्य मनसां हरिम् । पादौ प्रसाथै जानुभ्यां ललाटेनावानें स्मृशेत् ।। पञ्चांगस्स नमस्कारः सपाणि स्वतिबन्धनम् । पाणेिं पृष्ठ समायोज्य व्यत्यस्य च तथांऽगुलीः । तद्धोभुखमानय्य कृतं स्वस्तिकबन्धनम् । पूजादावेव मस्तिष्कं संपुटं वा प्रयोजयेत् ॥ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्थसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाल्यज्वना विरचिते श्रीवैखानससूलव्याख्याने तात्पर्यचिन्तामणौ चतुर्थप्रश्ने द्वादशः खण्डः । ६५७