पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इदशः खण्डः] श्रीवैखानसगृह्यसूत्रम् शुद्धात्रं पयसधैव कृसरं गौल्यमेव च । यावकेन तु पञ्चैते देया मूर्तिक्रमेण तु । अलाभे सर्वमूर्तीनां शुद्धान्ने वा निवेदयेत् । पायसादीनि चत्वारि चतुर्मुर्तिविधानके ? ! इति ६५५ 'इदं विष्णु'रिति पानीयं तथाऽऽचमनं ‘विचक्रमे पृथिवी । मिति मुखवासश्च दत्वा द्वादशाष्टक्षराभ्यां पुष्पाणि ददाति ।। ७ ।। पानीयं – 'शीतं पर्युषितं तोयं गन्धैरप्यधिवासितम् । । दद्याद्यन्मन्त्रतः शुद्धं पानीयं नाम विग्रहः । । तथाऽऽवमनम्। स्पष्टम् । पुष्पाणि ददाति । पुष्पांजलेिविधेि 'प्रसवमानसो भूत्वा मन्त्रमष्टाक्षरं जपेत् । अष्टोत्तरशतं पुष्पाण्यादायांजलिना ददेत् ।। पुष्पाण्यादाय पाणिभ्यां गायत्रीं वैष्णवीं जपन् । भकया पुष्पाणि दत्वा च अष्टोत्तरशतं जपेत् ' । इति विचक्रमे पृथिवीमिति केवलं वाऽथ तांबूलं करैलादिभिर्युतम् । यट्पदद्यातु मन्त्रेण मुखवासं हि तं िवदुः ' । इति तं यज्ञपुरुषं ध्यायन् पुरुषसृतेन संस्तूय प्रणामं कुर्यात् ॥ ८॥ यज्ञेषु विहीनं तत् संपूर्ण भव'तीति श्रुतिः ।। ९ ।। द्विजातिरतन्द्रितो नित्यं गृहे देवायतने वा भंक्तया भगवन्त नारायणभर्चयेत् ।। १० ।। वद्विष्णोः परमं पदं गच्छ'तीति विज्ञायते ।। ११ ।।