पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ नित्यार्चनम् ॥ १ अथ प्रतिष्ठानन्तरम् । प्रतिष्ठारहितबिंबस्य लोहतुल्यत्वात् । यद्वा झानसन्ध्योपासनानन्तरम् । नित्यार्चनं-प्रतिदिनमर्चनम् । । 'अतो देवा' इति देवं प्रणम्य निर्माज्यं व्यपोह्म उत्पूतैराधवैः व्याहृत्या वेदिं परिमृज्य पूर्ववद्देवं ध्यात्वा ॥ २ ॥ 'देवदक्षिण आसीनः कुर्यात्पूजां समाहितः' इत्यासित्वा ‘अतो देवादिभिः भड्भर्मन्त्रैः देवं प्रणम्य निर्माल्यं व्यपोह्य - पूर्वेद्युः समर्पितपुष्णादीनि व्यपोह । उत्पूतैराधावैः ‘इदमापशिवा इति वा 'देवो क्स्सदितेति वा उत्पवनम् । व्याहृत्या वेदिं -अर्चापीठं; परिमृज्य । पूर्ववत्-प्रतिष्ठोक्तवत् देवं ध्यात्वा । विाभावे हृदयकमले ध्यात्वा कर्तव्यम् । बिंबाभावे हृदाकाशे ध्यात्वैवं पूजनं सदा । उद्वासनञ्च कर्तव्यमन्तेऽशक्तवि:ि स्मृत ! इति वचनात् । यानप्रकारो यथा हृत्पुंडरीकमुकुलभुङ्कत्य प्रणवेन तु व्याहृत्या विकचं कृत्वा तलेन्द्रादिदिगीश्वरान् ॥ दलेष्वष्टषु संस्कृस्य द्वात्रिंशत्केसरेष्वतः । शेषान् देवान् समभ्यच्यै कर्णिकां प्रकृतिं स्मरेत् ॥ रश्मिमालावृतं ध्यात्वा तन्मध्ये रविमंडलम् । तन्मध्ये शशिबिश्च द्रवत्पीयूषशीतलम् । तस्य मध्यगतं ध्यायेतूिकोणे वह्निमण्डलम् तस्य मध्ये प्रभां ध्यायेन्निर्धरणं निष्कळां शुभाम् । नीवारशक्तवत्तन्वी पीताभा स्यात्तनूपमा ।