पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तास्पर्यचिन्तामणिसहितम् तत्रैव-प्रकीर्णेः--' अथ वक्ष्ये विशेषेण बेरलक्षणमुत्तमम्। । शैलजं रखजचैव धातुजे दारवं तथा । सृण्मयं स्यात्तथैवेत्थं पञ्चधा बेरमुच्यते । चतुर्विधन्तु शैलं स्यात् सप्तधा रलजं तथा । अष्टधा धातुजे प्रोक्तं दारु षोडशोच्यते । मृण्मयं द्विविधं प्रोक्तं क्रमालक्षणमुच्यते । [चतुर्थे प्रश्म् शैलज बेरमाख्यातं तस्य लक्षणमुच्यते । गोक्षीराभनिभा चैव शंखकुन्देन्दुसन्निभा । शिला श्रेता समाख्याता सा तु वश्य (साऽपवर्ग)मदायिका जपाकुसुमसंकाशा शिला शोणितसन्निभा । बन्धूक्पुष्पमतिमा जातिहिंगुलेिोपमा । शिला रक्ता समाख्याता जयदा लक्षणान्विता । पीता सुवर्णसदृशा रजनीचूर्णसन्निभा ।। शिला लक्षणसंयुक्ता धनधान्यसुखमदा । माषगुग्गुलसंकाशा तथा जंबूफलोपमा । भृगमुद्रसमाकारा मजावृद्धिकर स्मृता । शिला कृष्णा च सर्वेषां सर्वसिद्धिप्रदायिका ! विप्रक्षत्रियवैश्यानां शूद्राणाञ्च यथाविधि । श्वेता रक्ता तथा पौता कृष्णा चैव यथाक्रमम् । द्विजानाञ्च त्रिवर्णानां शिला रक्ता जयप्रदा । वेता मोक्षप्रदा प्रोक्ता ब्राह्मणानां विशेषतः । एतैस्तु ध्रुववेरन्तु कारयेद्यदि भक्तितः । माणिक्यञ्च प्रवालञ्च वैदूर्य स्फाटिकं तथा । ।