पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [ चतुर्थ प्रश्ने 'एषा तु मानसी पूज़ वेरपूजा विशिष्यते' ! इत्यादिवचनैः समृनीचैनं प्रस्तूयते । गृहं श्मशानं तव बिंशवर्जितं कथाविहीनाश्च गिरश्रिावारुताः । श्वसन् शो दास्यकृतं बिना वपुः वदन्ति हि त्वय्यनिवेदितं विषम् ? ॥ इत्यादिभिर्वचनैः भगवदर्चनरहितत्वे गुरुतरदोषश्च स्मर्यते । विष्णोः बिंब क्लप्तिमकारः श्रूयते यजुषि-'यतो वीरः कर्मण्यः सुदक्षेो युक्ताचा जायते देवकामः ? इति । तापनीयोपनिषदि श्रुतेरस्या अर्थः व्याख्यातः ! श्रुत्यर्थश्रेत्थम्। वीरशब्देन नृसिंहः प्रतिपाद्यते । यतो यस्मात् हिरण्यकशिपुसंहारकारणात् वीरः महाविष्णुः कर्मण्यः कर्माराध्यः । यद्वा-हिरण्यवधादिकर्मकृत् सुदक्षः सुतरां कर्मफलप्रदानं समर्थः देवकामः अखिललोकोजीवनार्थमर्चावतारादिषु स्वसमाराधनापेक्षया देवतात्कामः । युक्त ग्रावा श्रीवैखानसभगवच्छास्त्रशिल्पादि शास्राद्युक्तवत् शिलारूपी ज्ञायते । देवकामः लीलाविभूतै क्रीडाकामः इति वा । भारते – { सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् । कृत्वाऽऽमनः प्रीतिकरी सुवर्णरजतादिभिः । तामर्चयेत् तां प्रणमेत् तां जपेत् तां विचिन्तयेत् । विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ' । इति तस्मात् गृहे परमं विष्णु प्रतिष्ठाप्य मायं प्रानहॅमान्तेऽर्चयति ॥३ षडंगुलादहीनं तटूपं कल्पयित्वा पूर्वपक्षे पुण्ये नक्षत्रे प्रतिष्ठां विन्यनिर्माणप्रकारमाह पडंगुलादित्यादिना । विस्तरस्तु मरीच्यादि संहितासु द्रष्टव्यः । यथा –