पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ दुशमः स्वप्डः अथाशौ नित्यहोमान्ते विष्णोर्नित्याचा सर्वदेवाव भवति।।१ 'विप्ल-व्याप्ता' विति धातोर्विष्णुशब्द उत्पाद्यते । 'अन्तर्बहेिश्च तत्सर्वं व्याप्य नारायणः स्थितः' इत्यादिश्रुतिभ्यश्च सर्वव्यापिनी विष्णो जगज्जन्मादिकारणस्य समस्तकल्याणगुणाकरस्य अवाप्तसमस्तकामस्य नित्यार्चनं प्रतिदिनं सायंप्रातरर्चन सर्वदेवार्चनं भवति । 'नारायणपरं ब्रह्म ' 'ब्रह्म देवानजनयत् ' 'ब्रह्म विश्वमिदं जगत् ? इत्यादिश्रुतयश्चात्रानुसन्धेया । 'अग्वैि देवानामचमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताः' इतेि ब्राह्मणम् ॥ २ ॥ अन्निवै इत्यादि । पारमामिकोपनिषदि च –‘विष्णुस्सर्वेषामविपति रिति विष्णोस्सर्वदेवाधिपतित्वं श्रूयते । परो मा अस्येति व्युत्पन्नपरमशब्देन विष्णोः समाभ्यधिकराहित्यमुच्यते । तथोच्यते चेताश्वतरे –“तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ्च दैवतम्! 'न तस्य कार्य करणञ्च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परस्य शक्तिर्विविधैव श्रयते स्वाभाविकी ज्ञानबलक्रिया च ' 'सकारणं करणाधिपाधिपो न चाऽस्य कश्चिजनिता न पाधिपः' 'एको ह वै नारायण आसीत् न प्रहा नेशानः' इत्यादि । विष्णो रर्चनञ्च ‘प्रवः पान्तमन्धसो धियायते मद्देशूराय विष्णवे चार्चतेत्यादि श्रुतिभ्यः विधीयते। अर्चनप्रकारश्च 'स वा एष पुरुषः पञ्चधा पञ्चात्मा ? इति वितन्यते । अस्य वैखानसस्य अर्चनस्यैव परमवैदिकत्वज्ञापनार्थ मूर्तिभेदेन पञ्चधा श्रूयमाणस्य श्रुतिसिद्धस्य विष्णोरेवार्चनं प्रतिपाद्यते । प्राधान्येन व्यूहविभवादीनां मूलभूत त्वद्विष्णोः तच्छब्देनैवात्र प्रतिपादनं युक्तम् । अनेन तान्त्रिकक्रमः व्युदस्यते । हृपुंडरीकमुकुलमुद्धृत्य प्रणवेन तु' इत्याद्युक्तान्तर्यागापेक्षया 'चक्षुषः प्रतिकरणान्मनसो हृदयस्य च । प्रीत्या संजायते भक्तिर्भक्तस्य सुलभो हरिः । ।