पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थे प्रश्ने सपिंडीकरणश्राद्धमकृत्वा शुभकर्मकृत् । ध्रुवमाझेोति नरकं सपिंडानां मृतै क्रमात् ॥ द्वादशाहे त्रिपक्षे वा यदाऽर्वाक् वृद्धिरापतेत्' । इति भविष्यत्पुराणे – 'द्वादशेऽहनि पक्षे वा त्रिपक्षे वा त्रिमसि वा । एकादशेऽपि वा मासे मंगले समुपस्थिते' । इति स्मृत्यन्तरे– “एकादशाहृमारभ्य यावदाषोडशाद्दिनात् । सपिंडीकरणं कुर्यात्ततः सप्तदशेऽहनि ॥ एकादशे द्वादशेऽह्नि त्रिपक्षे वा त्रिमासकं । षष्ठ वैकादशेऽब्दे वा संपूर्णे वा शुभागममे । सपिंडीकरणस्येत्थमझै कालाः प्रकीर्तिता । । इति कात्यायनः– ‘अन्तरेणैव यो वृद्धिं मासिकान्यपकर्षति । स श्रद्धी नरके घोरे पितृभिस्सह मज्जति । अकृते प्रेतसंस्कारे न कुर्यादात्मनश्शुभम् । कुर्याच्चेदशुभं कर्म मुख्यकर्तुश्च सन्निधौ । वंशजानामसंस्कारे सूतकन्तु कथं मवेत् । दशाहात्परतः शुद्धिः ज्ञातीनाश्च विशेषतः । सपिंडीकरणात्पूर्वे मसिकानि कृतान्यपि । पुनरप्यपकृप्यन्ते कृद्धयुत्तरनिषेधनात् । आनन्यात्कुलधर्माणां पुंसाथैवायुषः क्षयात् । अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते ? ॥ इति स्मृत्यन्तरे – 'सपिंडीकरण कुर्यात् पित्रंॉरेको हि यस्युत । आस्थिरत्वाच्छारीरस्य द्वादशाहः प्रशस्यते । एकः पुत्रोऽग्मिांश्चैव कुर्वीत द्वादशेऽहनि । पिंडीकरणश्राद्धं तयोरेक इति स्थितिः ।