पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्ने पितृन् प्रेतान्वोद्दिश्य पूजनं सर्वे श्राद्धं मवतीति ॥ ११ ॥ तत्र हेतुः- िपतृनित्यादि । पिंडपितृयज्ञः कर्तव्यः एवेति विज्ञायते ॥ १२ ॥ झांडिल्यः- ‘एकादशेऽह्नि कुर्वाणः पूर्वाहे सर्वमाचरेत् । सपिंडीकरणं मध्ये क्रमे पितृयज्ञताम् ॥ सपिंड्यन्तु विना पुत्रः पितृयज्ञ समाश्रयेत् । न पार्वणे नाभ्युद्यं कुर्वन्न लभते फलम् ।। एकादशाहे कुर्वीत द्वादश्य ... आमायत् । सपिंडीकरणं कृत्वा पितृयज्ञ समाचरेत् ॥ इतेि हारौतः– ‘अनप्तिस्तु यदा वीर भवेत्कुर्यात्तदा गृही । प्रेत स्याद्वादशाहे सपिंडनम् ? ॥ इति गोभिलः – 'सपिंडीकरणात् प्रेते पैतृकं पदमाथिते । आहिताग्नेः सिनीवाल्यां पितृयज्ञः प्रवर्तते । ॥ इति काणशनिः 'सपिंडीकरणं कुर्यात्पूर्वववाभिमान् द्विजः । परतो दशरात्रचेत् कुहू ... ब्दोपरि ततः ॥ इति अतः सपिंडीकरणमेकादशाहे कृत्वा पिंडपितृयज्ञः कर्तव्य एव । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासायज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ चतुर्थप्रदने सप्तमः खण्डः