पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मार्कण्डेयः- अखण्डादर्श- स्मृत्यन्तरे– भूः ---- बृहस्पतिः– श्री श्रीनिवासनखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्ने ‘यस्य संवत्सरादर्वाक् सपिंडीकरणं कृतम् । मासिकञ्चोदकुंभश्च देयं तस्यापि वत्सरम् ॥ श्रद्धानि क्रमशः कृत्वा सपिंडीकरणे कृते । प्रेतकार्याद्विमुक्तस्स स्वकर्मफलभाग्भवेत् ॥ मृतानामेव श्यानामेको यदि च दाहकः । एकस्मिन् दिवसे कुर्युदेकतन्त्रेण कारयेत् ।। समानडियोगानां सपिंडीकरणं सह । दैवं पित्र्यञ्च तन्त्रं स्यात् निमितं प्रतिपूरुषम् ॥ बहूनामेककर्तृणामेकवेज्दहुधा भवेत्। तत्रैकं पृचनं कुर्यादरेिको द्विजाः पृथक्' । इति 'असपिंडो यदि भवेत् तृतीये वस्थिसञ्चयः । एकोद्दिष्ट चतुर्थेऽह्नि मरणातु विशेषतः' । इति ‘सपिंडीकरणं यत् द्वादशेऽहि विधीयते । तत्पञ्चमदिने कुर्यादसपिंडे इति स्थितिः' ॥ इति 'समानोदकादिः कुर्वीत संस्कारं दशरात्रतः । दशाहान्तेन शुद्धिस्यादित्याह भगवान् भृगुः । गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरेत् । प्रेताहारैः समं तद्वद्दशरात्रेण शुद्धयति ? ॥ इतेि ‘अकृते प्राप्तकाले तु श्राद्धकालोऽत्र वक्ष्यते । कन्याकुंभगते भानौ कृष्णपक्षे विधीयते । सपिंडीकरणश्राद्धमुक्तकाले न चेत्कृतम् । रौद्रे हस्ते च रोहिण्यां मित्रमे वा समाचरेत्' । इति सपिंडीकरणं येन प्रमादादकृतं भवेत् अनूराधाद्वैहस्तेषु रोहिण्यां वा समाचरेत् । प्राजाफ्यैन्द्ररौद्रक्षण्युत्तमानि सपिंडने ।। इति