पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्ड] श्रीवैखानसगृह्यसूत्रम् मासिकानान्तु सापेिंड्यात्पूर्वन्तु युगफ्कृतम् । प्रत्येकं पिंडदानन्तु अझैौ प्रेताहुतिस्सकृत् ॥ इति स्मृत्यन्तरे- 'एकोद्दिष्टस्य दिवसे सपिंडीकरणं विना । श्राद्ध कुर्थात् पितृकोधात् क्षयमाप्नोति सन्ततिः' ।। सायणीये – 'लैपश्किोन्षाण्मासे अनाब्दिकमथाचरेत् । एतषामेव कालं तु न पुनः करण भवत् । आद्य त्रैपक्षिकचैव ऊनधाupसिकं विना । मासिकानि पुनः कुर्यात् स्वे स्वे काले यथाविधि' । इति याज्ञवल्क्यः – 'अर्वाक् सपिंडीकरणं यस्य संवत्सराद्भवेत् । तस्याप्यन्नं सोदकं दद्याद्यावत्संवत्सरं द्विजः' । इति स्मृत्यन्तरे – 'एकोद्दिष्टं नवश्राद्धं श्राद्धान्यपि च शेोडश । एकस्मिन् दिवसे कुयादेकोद्दिष्टन्तु निष्फलम् । । इति पैठीनसि:- ‘पाण्मासिकाब्दिकश्राद्धेौ स्यातां पूर्वेद्युरेव ते । मासिकानि मृताहे स्युः दिवसे द्वादशेऽपि वा' । इति सत्यव्रतः – ‘अब्दसंबुधटं दधादन्नमाज्येन संयुतम् । संवत्सरे प्रवृद्धेऽपि प्रतिमासश्च भासिकम्' । इति गौतमः -- 'अथैवं पार्वणं श्राद्धं सोदकुंभमदर्शकम् । कुर्यात्प्रत्याब्दिकश्राद्धात्संकल्पविधिनाऽवहम्' । इति गोभिलः- 'द्वादशाहादिकालेषु प्रमादादकृतं यदि । सपिंडीकरणं कुर्यात् कालेष्वन्तरभाषुि । द्वादशाहप्रभृत्यस्य तृप्तये नान्नसंयुतम् । दद्यादहरहः कुंभं जलपूर्णन्तु वत्सरम्' । इति विज्ञानेश्वरीये - 'प्रेतलोके तु वसतिः नृणां वर्षन्तु कीर्तितम् । क्षुत्तृष्णे प्रत्यहं तत्र भवेतां भृगुनन्दन ' ! ॥ इति