पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-सात्पर्यचिन्तामणिसहितम् [चतुर्थं प्रश्ने पिंडीकरणश्राद्धमकृत्वा शुभकर्मकृत् ध्रुवमाझेोति नरकं सपिंडानां मृतै क्रमात् ॥ द्वादशाहे त्रिपक्षे वा यदाऽर्वाक् वृद्धिरापतेत्' । इति भविष्यपुराणे – 'द्वादशेऽहनि पक्षे वा विपक्षे वा त्रिमसि वा । एकादशेऽपि वा मासे मंगले समुपस्थिते' । इति स्मृत्यन्तरे – 'एकादशाहमारभ्य यावदाषोडशद्दिनात् । सपिंडीकरणं कुर्यात्ततः सप्तदशेऽहनि ॥ एकादशे द्वादशेऽह्नि विपक्षे वा त्रिमासके । षष्ठ वैकादशेऽब्दे वा संपूर्णे वा शुभागममे । सपिंडीकरणस्येत्थमझै कालः प्रकीर्तिता ' । इति कात्यायनः– ‘अन्तरेणैव यो वृद्धिं मासिकान्यपकर्षति । स श्राद्धी नरके घोरे पितृभिस्सह मज्जति । अकृते प्रेतसंस्कारे न कुर्यादात्मनश्शुभम् । कुर्याच्चेदशुभं कर्म मुख्यकर्तुश्च सन्निधौ । वंशजानामसंस्कारे सूतकन्तु कथं भवेत् । । दशाहात्परतः शुद्धिः ज्ञातीनाञ्च विशेषतः । सपिंडीकरणात्पूर्व मसिकानि कृतान्यपि । पुनरप्यपकृष्यन्ते वृद्धयुत्तरनिषेधनात् । आनन्यात्कुलधर्माणां पुंसचैवायुषः क्षयात् अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते' । इति स्मृत्यन्तरे. 'सपिंडीकरणं कुर्यात् पित्रोरेको हि यस्सुतः आस्थिरत्वाच्छारीरस्य द्वादशाहः प्रशस्यते ॥ एकः पुत्रोऽग्मिांश्चैव कुर्वीत द्वादशेऽहनि । सपिंडीकरणश्राद्धं तयोरेक इति स्थितिः ।। ६१०