पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०६ श्री श्रीनिवासमखिकृत-तापर्यचिन्तामणिसहितम् (चतुर्थ प्रश्ने डियूजाया भगवदाशधन्वेन भगवता प्रतिपादितत्वात् (तन एव चारिताथ्र्यात्) अत्र जीवपितृकविषये 'पितरि जीवति पिंडो न निर्वाप्य ? इति वक्ष्यमाणत्वात् जीवमाने तु पितर पूर्वेषामे ? निर्वपेत् । विप्रवद्वापि तं श्राद्धे स्वकं िपतरमाशयेत् । इति वचनाञ्च प्रत्यक्षेण ब्राह्मणभोजनमयुक्तमिति होमस्य प्राधानता । कृतोद्वाहोपनयो वर्ष वृषधमेव वा । पार्वणन्तु न कुर्वीत कुर्याच्छूद्धमपिंडकम् ॥ ' इति कृतोद्वाहादिविषये ब्राह्मणभोजनस्य प्रधानता। इतरेषां होमपिंडदानब्राक्षण भोजनानि । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरिचते श्रीवैखानससूत्रव्याख्याने तार्यचिन्तामणै चतुर्थप्रश्ने षष्ठः खण्डः