पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्ने हरणभाग हि पितरः । पितृनेव निरवद्यत इति । पञ्चाशद्वत्सरादूर्व वासां स्थाने स्वहस्तप्रकोष्ठरोमाणि भित्वा दद्यात् । श्रति । 'उत्तर आयुधि लोममिन्दीत । पितृणां खेतर्हि नेदीयः' इति । चकारेण तांबूल्दक्षिणादि । पूर्ववत् 'ऊर्ज वहन्तीः ' इति पिंडं परिषिच्य त्रिरुदकाञ्जलिं दत्वा तथैव पितृभिन्द्य प्रवासयति ॥ ३ ॥ पूर्ववत् । अष्टकावत् । उदकाञ्जलिं दत्वा । श्रुतिः । 'अपः परिविश्वति । मार्जयत्येवैनान् ! अथो तर्पयत्येव । तृप्यति प्रजया पशुभि 'ििते। प्रवासयति अष्टकावत् पिंडोद्धासनं ब्राह्मणभोजनञ्च कुर्यात् । 'प्रजापते न त्वत् ? इति गार्हपत्यं गत्वा ‘यदन्तरिक्ष'मित्यु प्रजापते न त्वत् इत्यादि । श्रुनिः प्राजापत्यमर्चा पुनरैति । यज्ञो वै प्रजापतिः । यज्ञेनैव सह पुनैरति । न प्रमायुको भवति ? इत्यादि । अनाहिताग्चैिवमौपासनाशैौ चरुं श्रपयित्वा जुहुयात् ।। ५ ।। विज्ञानेश्वरीये – 'आहितास्तुि जुहुयाद्दक्षिणासौ जुहोत्यथ । अनातिारौिपासनेऽन्यभावे द्विजेऽप्सु वा ।। इति औपासनस्य संस्कागभानात् 'यदन्तरिक्ष'मिति मन्त्रेण गाहै पत्यशब्दं विनैवोपस्थानं कुर्यात् ।। ६ ।। संस्काराभावात् – गार्हपत्यसंस्काराभावात् ।

  • अपान्त्वौषधीना 'मिति मध्यमं पिंडं दत्वा ‘आधत्त पितर

इति पत्नीं प्राशयेत् ।। ७ ।। पन्नीं प्राशयेदिति । मध्यमं पिंडं इडापात्रे निक्षिप्य दत्वा पतीं प्राशयति । प्राजापत्यत्वान्मध्यमपिंडप्रदानम् ।