पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० ० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितस्' [चतुर्थं प्रश्ने ततः पूर्वं चा दर्शप्रतिपत्संद्धिः तदा सन्धिदिनात्पूर्वस्मिन् दिवसेऽन्वाधानं तत्रैवामावास्याया अपराह्मव्यापित्वात्तत्रैव दर्शश्राद्धपिंडपितृयज्ञाविति त्रयाणामेकदिन करणीयत्वम् । यदा वा मध्याह्लादुपरि अमावास्यामतिपत्सन्धिः तदा अमावास्याया पूर्वेद्युरपराहान्यात्विाभावे परेद्युरपरालव्यात्विात् पूर्वः परेद्युरन्वा धानविधानात् त्रयाणामेकोत्तरदिनत्वम् । दिनत्रयमेकदेनत्वं() यदा मध्याहा दुपयेमावास्याप्रतिपत्संद्धिः तदा अमावास्याया दिनद्वयम् । या ओषधिवृद्धौ साम्ये च सर्वेषां परेद्युरेव श्राद्धविधानात् परेद्युरन्वाधानविधानात् परेद्युरेव पिंडपितृयज्ञ विधानात् त्रयाणामेकोत्तरदिनत्वमेकदिनत्वम् । यदाऽऽमावास्थाप्रतिपत्सद्धिः मध्याह्मदुपरि तिथिक्षीणतया दिनद्वयेऽप्यपराह्यस्पर्शित्वं तदा सर्वेषां परेद्यु श्राद्धविधानात् परेद्युरेव पिंडपितृयज्ञविधानात् प्रतिपदि चन्द्रादर्शने परेद्युरन्वा धानात् त्रयाणामेकोत्तरदिनत्वम् । यदा मध्याहादुपरि अमावास्याप्रतिपत्सन्धिः अमावास्या दिनद्वयेऽप्यपराद्धव्यापिनी तिथिरपि क्षयाभिनी तदा अमिद्वयवतां सिनीवाल्यां दर्शश्राद्धविधानम् । तथा च पितृयज्ञावृतो दर्शश्राद्धे पिंडान् विनिक्षिपेत् । पितृयज्ञस्य कालस्तु दर्शश्राद्धे भवेदिति । । इति वचनात् दर्शश्राद्धदिन एव पितृयज्ञः । तत्र प्रतिपदि चन्द्रादर्शने सिनीवाल्यामेवान्वाधानमिति त्रयाणामेकपूर्वदिनत्वम्। (यदाऽमावास्याप्रतिपत्संन्धिः मध्याहादुपर्यमावास्या च दिनद्वयेऽप्यपराहस्पर्शनतिथिक्षयगामिनी तदा मंतिपदि चन्द्रादर्शनादन्याधानं सिनीवाल्थम् । तथा पितृभ्यः श्राद्धं पिंडपितृयज्ञश्च सिनीवाल्यामेवेति पूर्वेकदिनत्वम्() !) अभिन्नथे दर्शश्राद्धपिंडपितृयज्ञान्वाघांन वचनान्येव प्रमाणानि । स्मृत्यस्तरे– ‘अपराह्मन्विता वाप अधिवृक्षयुतापि वा । । अदृष्टन्दुरमावास्या पितृयज्ञे तु चोदिता ॥ वर्धमानाममावास्यां लक्षयेदपरेऽहनि । यामांस्त्रीनधिकान्वापि पितृयज्ञप्रदो भवेत् ? ॥ इति