पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चमः खण्डः अथातोऽमावास्यायां पिंडपितृयज्ञे यजेत । अथ-कभप्रप्ताष्टकानन्तरं । अतः-चंडालत्वनिवृतिद्वारा सन्ततिवृद्धि दर्शश्राद्धमतिक्रम्य यो भुक्ते स नराधमः । चंडालत्वमवाप्ोति नवजन्मानि पञ्च च । । इति कात्यायनः – ‘दशे ज्ञात्वा पितृभ्यस्तु दद्यात् कृष्णतिलोदकम् । अन्नश्च विधिबद्दद्यात्सन्ततिस्तेन वर्धते ' । इति याखवल्यः ‘न निर्वपति यः श्राद्धं प्रमीतपितृको द्विज । इन्दुक्षये भासिमासि प्रायश्चित्तीयते द्विजः' । इति वाप्तथथे - दर्शपूर्णमासप्रकरणे - 'ते देवा अब्रुवन् अमा नो अद्य वक्षुर्वसति यो नः प्रायत्स ! दितेि । यजुषि--'इन्द्रो वृत्रहृत्वा परां पराक्तभगच्छत् ' इत्यारभ्थ. 'सोऽमावास्यां प्रत्यागच्छत्तं देवा अभिसमभिगच्छन्तामा वै नोऽद्य वधु वसतीतीन्द्रो हि देवानां बसु तद्मावास्याया अमावास्यत्वम्' इति 'अमा वसुं नैच्छदस्य रात्र्यामित्यमावास्या। इतेि । स्वाग्रे नागरखंडे-'आश्रितैौ तावमावास्यां पश्यतस्थुसमागतौ । ५ ८ बृहद्वसिष्ठः - 'अमा नाम रवेः रश्मिस्सहस्रप्रमुखा स्मृता । यस्याश्च तेजसा सूर्यः प्रोक्तस्रलोक्यदीपकः । तस्मिन् बसति येनेन्दुमावास्या ततस्मृता' । इति श्रीविष्णुपुराणे –‘कलाद्वावशिष्टस्तु प्रविष्टस्सूर्यमण्डलम् । अमाख्यरश्मौ वेिशति अमावास्या ततस्मृता । । इति