पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७६ हरिवं शे– श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्न पितरस्सप्त ऋषीणाञ्च तान् नमस्यामि कामदान् । मन्वादीनां जनितृश्च सर्वलोकनमस्कृतान् । तान् नमस्यामि नित्यालैः पितृणाञ्च समृद्धये । नक्षत्राणां ग्रहाणाञ्च वाय्वमिपितरश्च ये । नमो द्यावापृथिव्योश्च नमस्येऽहं कृताञ्जलिः । देवर्षीणां संजनितृन् सर्वलोकनमस्कृतान् ॥ मांधातून् सर्वलोकानां नमस्येऽहं पितामहान्। प्रजापतेर्गवां वहेः सोमाय च यमाय च ।। योगीश्वरेभ्यश्च सदा नमस्येऽहं कुताञ्जलिः । नमः पितृगणेभ्यश्च श्राद्धाद्या ये च कीर्तितः । स्वयंभुवे नमस्येऽहं ब्रह्मणे योगचक्षुषे । एतदुक्तश्च सप्तर्च देवर्षिगणसेवितम् । पित्र्यश्च परमं ह्येतत् श्रीमद्रक्षेोन्नमेव च । एतेन विधिना युक्तः श्रीमान् भूयाद्धराधिपः । सप्तर्चश्च जपेधस्तु नित्यमेवं समाहितः । सप्तद्वीपसमुद्रायां पृथिव्यामेकराट् भवेत्' । इति ‘। राजते रजितं वाऽपि पितृणां पात्रमुच्यते रजतस्य कथा वाऽपि दर्शनं दानमच्युत । आनन्त्यमक्षयं स्वर्ये राजतं दानमुच्यते । । पितृणां तेन दानेन सत्पुत्रास्तारयन्युत । राजते हि स्वधा दुग्धा पात्रेऽस्मिन् पितृभिः पुरा । अक्षयार्थ म्ही यस्मादस्मिन् दते ततोऽक्षयम् । कृष्णाजिनस्य सान्निध्यं दर्शनं दानमुच्यते । राक्षो ब्रह्मवर्चस्यं पुत्रान् पौत्रांश्च तारयेत् ॥ इति