पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः ] श्रीवैखानसगृह्यसूत्रम् नाम गोत्रं पितृणान्तु आफ्कं हव्यकव्ययोः। नाममन्त्रास्तथादेशा ? भावान्तरगतानपि । प्राणिनः प्रीणयन्त्येते तदाहारत्वमागतान् । देो यदि पिता जात: शुभकर्मनियोगतः । तस्यान्नममृतं भूत्वा दिव्यत्वेऽप्यनुगच्छति । देवत्वे भोगरूपेण पशुत्वेऽपि तृणं भवेत् । । श्राद्धानां ४ वायुरूपेण कल्यत्वेऽप्यनुतिष्ठति । पाकं ? भवति यक्षत्वे राक्षसत्वे तथाऽऽमिषम् ॥ गन्धर्वत्वे यथायोगं भेतत्वे तु तिौदनम् । मनुष्यत्वेऽन्नपानादि नानाभोगरसं भवेत् । । इति मत्स्यपुराणवचनात् । ‘तथाऽन्ये पूजितास्बर्ग ये चान्ये नरकैौकसः । ये च तिर्यक्तमापन्ना ये च भूतादिसंस्थिताः । तान् समान् यजमानोऽत्रैः श्राद्धं कुर्वन् यथाविधि । समाप्यायते वत्स येन येन श्रृणुष्व तत् । अन्नप्रकिरणं यतु मनुष्यैः क्रियते भुवि । तेन तृप्तिमुपायान्ति ये पिशाचत्वमागता । यदंबु स्नानक्खेोत्थं भूमौ पतति पुत्रक । तेन ते कुरुतां ? प्राप्तास्तेषां तृप्तिः प्रजायते । यास्तु बद्धांबुकणिकाः पतन्ति धरणीतले । ताभिराप्यायनं तेषां ये देवत्वं कुले गताः । उटुधृतेषु च िपंडेषु याश्चात्र कणेिका भुवि । ये चादन्ताः कुले जाताः क्रियाहीना ह्यसंस्कृताः । ५७३