पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्मसूत्रम् यः भवन्ति पितरो लोके मया सृष्टास्सनातनाः । पिता पितामहश्चैव तथैव प्रपितामहः । अहमेवात्र विज्ञेथत्रिषु पिंडेषु संस्थितः । नास्ति मन्त्रोपि यः कश्चित् को वाऽभ्यच्यों मया भवेत् । अहमेव पिता लोके अहमेव पितामहः ॥ तिामहपिता चैव अहमेवात्र कारणम् । इत्येवमुक्ता वधनं देवदेवो वृषाक:ि । वराहवपुषा विप! दत्वा डिान् सविस्तरम् । आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः । एतदर्थं शुभं तेऽपि पितरः पिंडसंज्ञिताः । लभन्ते सततं पूजां वृषाकपिवो यथा । ये यजन्ति पितृन् भक्तया गुरुदेवातिथींस्तथा । गाश्धेन द्विजमुख्याद्य पितरं मातरं तथा । कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते । अन्तर्गतस्स भगवान् सर्वसत्त्वशरीरगः । ईश्वरस्सर्वभूतानामीश्वरः मुखदुःखयोः । महान् महात्मा सर्वात्मा नारायण इति श्रुतिः ? ! इति अतः पिंडमूर्तिधराणां पूजार्थे पिंडप्रदानम् । तत्र पित्रादिस्वरूपेण नारायण एव ध्येयः । पिंडमदानेन पितृणां तृप्तिर्भवत्येव । चरुशेपेणान्यैश्चान्नावपूपोपदंशैः पूर्ववद्ब्राह्मणान् यथातृप्ति भोजयेत् ।। ११ ।। तेषु तृषु पितस्तुप्ता भवन्ति ।। १२ ।। चरुशेषेणेत्यादि । पृथिव्यंशत्वादन्नेनोक्तम् । यद्वा--'अन्नं ब्रक्षेति व्यजानात् ? इति श्रुतिः ।