पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः] राजा वरो दिलीपस्तु तथा दृष्टो महर्षिभिः । सत्यवन्तं भहात्मानं तेऽांपे स्वर्गजितो नराः । ये चाश्वमेधावभृथे सह तेन दिवं गतः । सुधन्वा नम पितरः कर्दमस्य प्रजापतेः । समुत्पक्षस्य पुलहादुत्पन्नाः कामस्य ते । ते लोकेषु दिवा यान्ति कामधेनुविहंगमाः । एता अन्ये गणाः श्राद्धे भावयन्ति फलार्थिनम् । एतेषां मानसी'कन्या विरजा भाम विश्रुता । ययातिजननी साध्वी पक्षी सा नहुषस्य च । सकल नाभ पितरः कर्दमस्य प्रजापतेः । हैरण्यगर्मस्य सुतः शूद्रास्तान् हावयन्त्युत ।। इति मोक्षधर्मे नारदीये – वैशंपायनः ‘कस्य चित्वथ कालस्य नारदः परमेष्ठिजः । दैवं कृत्वा यथान्यायं पिञ्यं चक्रे ततः परम् । ततस्तद्वचनं(?) आह ज्येष्ठो धर्मात्मजः प्रभुः । इज्यते च द्विजवर! दैवे पित्र्ये च कल्पिते । त्वया मतिमतां श्रेष्ठ तन्मे शंस यथा तथा । 72 ततस्तद्भावितो नित्यं यजे वैकुंठमव्ययम् । तस्माध प्रसृतः पूर्वं ब्रह्मा लोकपितामहः ॥ ममैव पितरं प्रीतः परमेष्ठिमजीजनत् । अहं संकल्पजः पुत्रः सस्य प्रथमकल्पितः । यजाम्यहं पितृन् सन्धौ नारायणविधौ कृते । एवं स एव भगवान् पिता माता पितामहः । ५६९