पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामभिसहितम् [चतुर्थ प्रश्न गृहः– 'अशक्तौ परिषिच्यैव वैश्वदेवं सपतृकम् । पूर्ववद्वा पितृणाश्च अश्वेत्यादिभिस्त्रिभिः ॥ इति सपिडीकरणवत् पितृणामप्याज्येन हुत्वा अत्रायं क्रमः। वैश्वदेक् होमानन्तरं प्राचीनावीती ‘बीतिहोत्र' मिति समिधौटुंबरीं कव्यमाविद्धय दग्ध्वा 'देवस्य त्वा सवितुः । इति दर्वीमादाय प्रक्षाल्य दक्षिणाग्रे निधाय ‘घृतं विहरामि इत्यादि । पृथिवीगतान् तृित्यािदिना आवहनजुष्टाकारौ समिदुल्केन द्विधा द्रहनं 'चित्पतिस्त्वा' इतेि संपातान्तं कृत्वा तिस्रस्समिध आधाय 'इमा मे अ!इति तिलादिभिरभ्यच्यै ‘अझय कव्यवाहनाय-सोमाय पितृमते - यमाय चाङ्गिरस्पतये स्वधा नमः' इत्युत्तरदक्षिणयोः मध्ये च हुत्वा 'एते य इह पितरः – उशन्तस्वा - सा नो ददातु' इत्युचः पितृदेवत्याः हुत्वा पृथिवीगतेभ्यः पितृभ्यः - अन्तरिक्षगतेभ्यः पितामहेभ्यः -दिविगतेभ्यः प्रपितामहेभ्यः स्वधा नमः स्वाहा । इति हुत्वा इच्यै-कव्यमित्यभिधायै 'विधेभ्यो देवेभ्यो हव्यं – िपतृभ्यः कव्य' मभिधारयामीत्यभिघार्य हव्येन विश्वेदेवस्येत्यादि हुवा, कल्येन ‘एते य इह पितरः' इत्यादिहोमं कुर्यात् । आज्यचरुभ्यां पूर्वं हुवा सौकर्यार्थे पश्चात् पितृभ्यो यजेदिति केचित् ।

  • अग्रेः सोमयमाभ्याञ्च कृत्वा पायसमादितः ।

हविर्धानेन विधिवत् सन्तर्पयेत्पतृन् । पश्चात् एकेषां न यमायेति याजुषाणां त्रये स्मृतम् एक इत्यन्यदृष्टत्वान्न द्वयं सूत्रकूजितम्' । इति आनुशासनिके 'निवाफ्नेन भगवन् भृशं खिद्यामहे वयम् । प्रसादं कुरु नो देव श्रेयो नस्संविधीयताम् । इति तेषां वचः श्रुत्वा स्वयंभूरिदमब्रवीत् । विषये पार्श्वतो वह्निः युष्मच्छेयो विधास्यति । अग्दिधाहेितास्रस्य भोक्ष्यामस्समुपस्थिते । जरयिष्यथ चाप्यन्न मया सार्द्ध न संशयः ।