पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् कोद्रवोद्दालकाश्चैव कुलुत्थाश्च तथैव च । कोद्रवाश्च िवशेषेण वज्र्यास्युः श्राद्धकर्मणि ' ॥ इति ब्रह्मवैवर्ते – 'कोशातकीञ्च कूश्मांडं कारवलीं सपीतकम् । उर्वारुकं मसीरश्च श्राद्धे दत्ते क्ष्यं भवेत् । ॥ इति मनुः-- “यत्किञ्चिन्मधुसर्पिभ्य प्रदद्यात् श्राद्धभोजने । अक्षय्यममृतचैव गयाश्राद्धसमं स्मृतम्' । इति गोभिल - 'परकीयप्रदेशेषु श्राद्धं कुर्यातु मूढधीः । तद्गृहस्वामेिपितृभिः हन्यते श्राद्धकर्म तत्' । इति मार्कडेयः- 'गृहामिधिषु () देवानां यतीनां ब्रह्मचारिणाम् । पितृषाको न कर्तव्य; पृथक्डिान् न निर्वपेत् ।। विष्णवे कल्पितञ्चाले दद्याद्भक्तभ्य एव च । वैश्वदेदं ततः कुर्यात् श्राद्धकर्मणि ... ... 1 ।।

    • --- 'चान्द्रायणसहस्रन्तु यः चरेत्कायशोधनम् ।

विष्णोर्निवेद्य यो भुङ्क्त तुल्यं तदुभयोः फलम् ।। अश्वमेधसहस्रस्य वाजपेयशतस्य च । तत्फलं समवामेति स विण्भोः पदमाप्युयात्' । इति श्रुतिरपि - 'विष्णुनात्तमश्नन्ति बिष्णुना पीतं पिबन्ति विष्णुना घातं जिघ्रन्ति विष्णुना सितं रसयन्ति तस्माद्विांसो विष्णूपहृतं भक्षयेयुः ? ॥ इति अथ प्रयोगक्रमः । एवंगुणविशेषणविशिष्टायां पुण्यतिथौ पितृपितामह प्रपितामहज्ञातिवर्गाणां मातृपितामहीप्रपितामहीज्ञातिवर्गपतीनां मातामहमातुः पितामहमातुःप्रपितामहानां मातामहीमातुःपिंतामट्टीमातुःपितामहीनां कारुण्यानां गोत्राणां शर्मणां वसुरुद्रादित्यस्वरूपाणां अष्टकाश्रद्धं विश्वदेवपूर्वं विप्वन्तमन्नेन हविषा पार्वणविधानेन अद्य करिष्ये इति संकल्प्य विधेदेौ द्वौ वीन् पितृन्। विष्णुछ घृत्वा पादप्रक्षालनादि कुर्यात् ।

५५९