पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्न स्मृतिसारसमुच्चये-'ग्रहणे तु द्वितीयेऽह्नि ऋतुदोषे तु पंचमे । मृतके तु त्रयोदश्यां () जात एकादशेऽहनि ।। उपवासे परदिने आर्तवे पञ्चमेऽहनि । सूतके (मृतके?) तु ववोदश्यां(४) वृद्धावेकादशेऽहनि । ग्रहास्तगित आदित्ये यथा श्राद्धं परेऽहनि' । इति गोभिलः – “ दश प्रत्यादिकं श्राद्धे त्वन्तरा मृतसूतके । सूतकानन्तरे कुर्यात्तन्मासीन्दुक्षयेऽपि वा । पितृणां नल पूर्वेप पितुश्च वमनं यदि । ननेि चोपवासश्च प्तुिः श्राद्धं परेऽहनि ! ॥ इति व्यासः – 'नाद्यात्सूर्यग्रहात्पूर्वमहि सायं झशिग्रहात् । ग्रहणे चैव नाश्नीयात् खात्वाऽश्नीयाश्च मुक्तयोः । अमुक्तयोरस्तगयोः अद्याद्दृष्टा परेऽहनि । मुक्त शशिनि भुञ्जीत यदि न स्यान्महानिशा ' । इति वसिष्ठः– ‘ग्रस्तोदये विधोः पूर्व नाहभोजनमाचरेत् । । सूर्यग्रहे तु नाश्नीयात्पूर्व यामचतुष्टयम् । चन्द्रग्रहे तु यामांस्रीन् बालवृद्धातुरैर्विना ? ॥ इति व्यासः-- * अपराद्धे न मया मध्याहे न तु संगवे । भुञ्जीत संगवे चेल्यात् न पूर्वं भुक्तिमाचरेत्' । इति गोभिल – ‘देशेन() विग्रहे पित्रोः प्रत्याब्दिक उपस्थिते । अन्नेनासंभवे हेम्ना कुर्यादामेन वा सुतः ? ॥ इति गौतमः 'अपुत्रा तु यदा भार्या संप्राप्ते भर्तुराब्दिके । रजस्वला भवेद्या तु तत्कुर्यात्पञ्चमेऽहनि ।। शुद्धा भर्तुश्चतुर्थेऽहिं स्राता नारी रजस्वला । दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्धयति ।