पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामजिसहितम् [चतुर्थ प्रश्ने गभस्तिः– 'एकोद्दिष्टन्तु यच्छूद्धं तन्नमितिकमुच्यते । न कार्य पूर्वमासे तु कालाधिक्येऽपि धर्मतः' । इति अवषट्कारहोमश्च पर्व चाग्रयणं तथा भलमासेऽपि कर्तव्यं काम्या इष्टर्विवर्जयेत् ? ॥ इति पौठीनसि:- . '। मलमासमृतानान्तु यच्छूद्ध प्रतिबत्सरम् मलमासे तु कर्तव्यं नान्येषान्तु कदाचन । । शुद्धमांसमृतानामपि 'आब्दिकं प्रथमं थत् स्यात् तत्कुर्वीत मलिम्लुचे ' ॥ इति हारीतः– 'असंक्रान्तै तु कर्तव्यमाद्विकं प्रथमं द्विजैः' । इति लघुहारीतः– ‘प्रत्यब्दं द्वादेशे मासे कुर्यात् पिंडोदकक्रियाः । कचिहूयोदशेऽपि स्यादा मुक्ता तु वत्सरम्' । इति सत्यव्रतः– 'वर्षे वर्षे तु यच्छूद्धं मातापित्रोर्मतेऽहनि । मलमासेऽपि कर्तव्यं व्याघ्रस्य वचने वथा ॥ वर्षे वर्षे तु यच्छूद्धं तत्कुर्वीत मलिलुचे। कुंर्यात्तत्र प्रमीतानां अन्येषामुत्तरत्र तु' । इति पौठीनसिः – '। भलमासमृतानां तु यच्छूद्ध प्रतिवत्सरम् मलमासे तु कर्तव्यं अन्येषां तु कदाचन ॥ पूर्वेद्युरपरेद्युश्च वर्जयेत् स्रीनिषेवणम् । व्यवायी रेतसो गतें मंज्जयत्यात्मनः स्तृिन्'।। इति स्मृत्यन्तरे- ‘नित्यनैमितिके कुर्यात्प्रयतस्सन् मलिग्लुचे । तीर्थस्रानं गजच्छाया प्रेतश्राद्धं तथैव च । कन्याकुंभगते सूर्ये कृष्णपक्षे विशेषत ! ! इति नारदः- 'यस्यां तिथौ मृतिर्जाता तस्यामेवाद्विकं चरेत् । तिथिनक्षत्रवारेषु तिथेिरेव बलीयसी ।