पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः] श्रीवैखानसगृह्मसूत्रम् नारदः-- 'मध्याह्वात् त्रिमुहूर्तन्तु यदा चरतेि भास्करः । स कालः कुतपे नाम पितृणां दत्तमक्षयम्' । इति शिबराधवसंवादे-'गृहादिव्यतिरिक्तस्य (?) प्रक्रमे कुतपः स्मृतः । कुतपादपि का पूर्वादावृत्तौ कुतपे सति ? । इति स्मृत्यन्तरे – 'कु यत्र गोपतिगोंभिस्तपत्येकत्वमाश्रितः । स कालः कुतपो नाम िपतृणां दत्तमक्षयम् ॥ दिवसस्याष्टमे भागे यदा मन्दायते रविः । स कालः कुतपेो नाम पितृणां दत्तमक्षयम्' ।। मध्याहः खड्गमांसञ्च तथा नेपालकंबलः । रौप्यं दर्भौतिला गाव: दौहित्रश्चाष्टमः स्मृतः । अष्टावेते यतस्तस्मात् कुतपाः इति विश्रुताः' । इति 'लीणेि श्राद्धे पवित्राणि दौहिंखः कुतपतिलाः । त्रीणेि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम्' । इति स्मृत्यन्तरे– 'महालये गयथाश्राद्धे मातापित्रोमृतेऽहनि । उपोष्यैव च पूर्वेद्युः तृिणामनृणो भवेत् । मातापिलोग्ताहे तु पूर्वेद्युम्समुपोषितः । त्रिरात्रं ब्रह्मचारी स्यात् पितृणामनृणो भवेत्' । इति मलमासादिविषये-काठकगृह्यः सोमथागादिकर्माणि नित्यान्यपि मलिम्लुचे । षष्टीष्टयाग्रयणाधानचातुर्मास्यादिकानि च । । महालयाष्टकाश्राद्ध उपाकर्मादिकर्म यत् । स्पष्टमासविशेषाख्या विशेषाद्वर्जयेन्मले ।। गभे बाधुर्षिके भृत्ये श्राद्धकर्मणेि मासेिके । सपिंडीकरणे नित्ये नाधिमासं विवर्जयेत् ? ॥ इति