पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४२ श्री श्रीनिवासमखिकृत-ात्पर्यचिन्तामणिसहितम् सार्य पूर्वेद्युः स्वाध्यायाचाश्वतः शुचीन् असगोत्रान् ब्राह्मणा नाहूयाम्पूिज्य युग्मान् द्यवरान् विश्वेदेवार्थे, ऋथवंशान् पित्रर्थे च स्मृत्थन्तरे- सायमित्यादि । अत्र बोधायनः । 'अथाष्टकाहोमः । तैप्ये मास्य परपक्षस्याष्टम्यां क्रियेत । एवं माजे, एवं फाल्गुने । यदि विहृतो यूछु वै समस्त उपरिष्टान्माध्यः पौर्णमास्या अपरपक्षम् सप्तम्यामष्टम्यां नक्म्यामिति. क्रियेत । अपि वा अष्टम्यामेव । धिः करिष्यामीति ब्राह्मणान् निमन्त्रयेत । योनिगोत्र श्रुतवृत्तसंपश्चानसंबन्धानित्येके । कंमे संबन्धानपि श्रुतवृत्तसंपन्नान् । श्रुतवृत्तयो हि स्वंवानिधित(१) इत्युपदिशन्ति' । इति ब्राह्मणस्य कुलं ग्राह्य न वेदात्संपदः क्रमात् । कन्यादाने पितृश्राद्धे न विद्या तत्र कारणम् । । इति समानञ्च सगोत्रञ्च विधुरं ब्रह्मचारिणम् । देवार्थ बरयेद्विप पिलर्थे वरयेन्न तु ? ॥ इति माज्ञवल्क्यः 'पती आता च भगिनी दैौहित्रो दुहितुः पति । अत्यासन्नमतिक्रम्य मुनेर्दत्तन्तु निष्फलम् ? ॥ इति 'स्वसीयक्रविाजामातृयाच्यश्वशुरमातुलाः । त्रिणाचिकेतदौहित्रशिष्यसंबन्धिबान्धवाः । [चतुर्थ प्रश्न पितृमातृपस्चैव ब्राङ्गणाः श्राद्धसंपदः । तदलामे तु सद्वृत्तान् गृहस्थानपि भोजयेत्' । इति च ‘सन्निकृष्ट द्विजं यस्तु युक्तजातिं प्रियंवदम् । मूर्ख चा पंडितं वापि वृत्तहीनमपि द्विजः । निरेंकारेण यद्भुक्तं सशाखेण () च भारत । दुसत्मना च यदुभुक्तं तद्भागं रक्षसां विदुः ।