पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्ड:] नः पितृन् यजते वसवो रुद्रा आदित्याश्च प्रीयन्ते । पितरो नाम वसवः, रुद्राः पितामहाः, आदित्याः प्रपितामहाः तेभ्यो दत्तमिहाक्षयं भवति' इति । कृष्णपक्षे दशभ्यादि वर्जयित्वा त्रयोदशीम् । श्राद्धे प्रशस्तातिथयो यथेता न तथेतरा ; } ॥ इति श्रीवैखानसगृह्यसूत्रम् क्षः मृताद्देऽहरहर्दशे श्राद्धं यञ्च महालधे । तन्नित्यमुदितं सद्भिर्नित्यवत्तद्विधान्तः ॥ प्रेतश्राद्धं सपिण्डत्वं संक्रान्तिग्रहणेषु च । संवत्सरोदकुंभञ्च वृद्धेिश्राद्धं निमित्ततः । तिथ्यादिषु च यच्छूाद्धं मन्वादिषु युगादिषु । अलभ्येषु च योगेषु तत्काम्यं समुदाहृतम् ? ॥ इति कालादों, देवलः-'न नन्दाक्षु भृगोवरे भरण्याञ्च त्रिजन्मसु । रेवत्याश्च-मघायाश्च कुर्यादापरपक्षिकम् ? ॥ इति नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मः । एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात्'।। इति इदं वचनद्वयमपि महालयश्राद्धव्यतिरिक्तविषयम् । काष्णजनिः - ‘नभस्यस्यापरे पक्षे पितृकार्य दिने दिने । नैव नन्दादिक्ज्यै स्यानैव वज्र्या चतुर्दशी ? ॥ इति गौतमः– ‘सूये कन्यागते श्राद्धं यो न कुर्याद्गृहाश्रमी । धनं पुत्राः कुतस्त्वस्य पितृनिश्वासर्पीडया ' ॥ इति काष्णर्माजनि:– “सूर्वे कन्यामितकान्ते िपतरो दैवतैस्सह । निश्वस्य प्रतिगच्छन्ति शापं दत्वाऽतिदारुणम् ।। अमांपाते भरण्याञ्च द्वादश्यां पक्षमध्यके । न तिथिर्न च नक्षत्रं कुर्यादेवाविचारयन्' । इति ५४१