पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्:] श्रीपंखानसगृह्यसूत्रम् बृहन्मनुः- 'मध्ये वा यदि वाऽप्यन्ते यत्र कन्यां रविजेत् । । स पक्षः सकलः पूज्यः श्रद्धं तत्र विधीयते ? ! इति जातुकणिः – ‘आषाढीमवधिं कृत्वा यः स्वात्पक्षस्तु पञ्चमः । श्राद्धकालस्स विज्ञेयः कन्यां गच्छतु वा रविः ! ॥ इति आदित्यपुराणे – 'आषाढीभवधिं कृत्वा पञ्चमो भवेत् । यःपक्षः श्राद्धन्तु तत्र कुर्वीत कन्यां गच्छतु वा न वा । । इतेि प्रशस्तकालतिक्रमे दोषमाह काष्णजनिः

  • प्रेतांस्तु चैव हिंसन्ति इञ्चमं यो व्यतिक्रमेत् ।

तस्मान्नतिक्रमेद्विद्वान् पञ्चमे पैतृकं विधिम्' । इति सुमन्तुः– 'कल्थारौ महाराज थावतिष्ठद्विभावसु । तस्मात्तावद्भवेद्देयं वृश्चिकं यावदागतः ॥ येऽयं दीपावली राजन् ल्याता पञ्चदशी भुवि । तस्यां दद्यान्न चेद्दतं पितृणां वै महालये? ॥ इति पुराणान्तरे – ‘कन्यागते सवितरेि पितरो यान्ति वै सुतान् । शून्या प्रेतपुरी सर्वा याबद्घवृश्चिकदर्शनम् । ततो वृश्चिकसंप्राप्तौ निराशाः पितरो गताः । पुनः स्वभवनं यान्ति शापं दत्वा सुदारुणम् ! ॥ इति भग पञ्चपक्षस्य अधिमासत्रे सप्तमः पक्ष एव श्राद्धकालः । नभो वाऽथ नभस्यो वा यदा मासेो द्विधा भवेत् । सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः । । इति ज्योतिः पराशरः-'अकें नभस्थे कन्यास्थे श्राद्धपक्षः प्रकीर्तितः । सिनीवालीमतिक्रम्य यदा कन्यां ब्रजेद्रविः । तदा कालस्य वृद्धत्वात् अतीत्यैव पितृकिया । ि ५३९