पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ तृतीयः खण्डः अथ आमथणान्तरम् । अन्नसंस्कारत्वादिति भावः । माधप्रोष्ठपदयोरपरपक्षे अष्टम्यामष्टकां कुर्यात् ।। २ ।। सप्तम्यां नवम्यां त्रयोदश्यां वा ॥ ३ ॥ कालनिर्णयमहं सप्तम्यामित्यादि । वाशब्दः कालान्तरपरः । स्मृत्यन्तरे - कृष्णाष्टम्यां तथा माघे ज्येष्ठसहितां तथा । सावशिष्टाष्टकायां तु प्रेतकार्य विशेषतः । सप्तम्यां च नक्क्यां च माधे कृष्णे विशेषतः । पितृणां प्रीतिदं श्राद्धं तस्ातिस्र उदाहृताः । कुंभे दिनेश्वरे मसि कृष्णपक्षे परं तथा । त्रिस्रोष्टकेति शंसन्ति पितरः कव्यकाँक्षिणः ।। इति बृहस्पतिः – ‘कन्यायां भास्करे मासि नभस्ये च त्रयोदशी । पितृमे सहिता चैव() पितृणां दत्तमक्षयम्।। बृहन्मनुः– 'नभस्यस्यापरः पक्षः यत्र कन्यां व्रजेद्रवि । स महालयसंज्ञस्यात् गजच्छायाह्नयस्तथा ' । इति कुत्सः– ‘उत्तराहस्तचित्तासु कन्यायां भास्वति स्थिते । कृष्णपक्षे गजच्छाया समानः पितृकर्मसु । यदेन्दुः पितृदेवत्ये हंसंधैव करे स्थितः । गजच्छायाह्वयः प्रोक्तः पितृणां दत्तमक्ष्यम्' ॥ इति बृहन्मनुः– ‘आषाढीमवधिं कृत्वा पञ्चमीं पक्षमाश्रिताः । कांक्षन्ति पितरः कृिष्टा अन्नमप्यन्वहं जलम्? ॥ इति