पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्ने जुहोति। ‘शतायुधाय' 'ये चत्वारः' इति पितृभ्यः, सोपवीती-'ग्रीष्मो हेमन्तः'-'इदुवत्सराय'-'भद्रां नश्श्रेय;'इतेि, 'आयुष्पा' इत्यादिभिः त्रिभिः व्याहृत्यन्तं हुत्वा दक्षिणे धरण्यां पितृभ्यो धलिदानम् ॥ २ ॥ अभये-इन्द्राभ्यिां -विधेभ्यो देवेभ्य:-सोमाय-द्यावापृथिवीभ्यामिति प्रधानदेवताः ! अत्रायं क्रमः । पत्न्या सह प्राणानायम्य आग्रयणेन यक्ष्ये' इति संकल्प्य आधारं हुत्वा जुह्वामुपस्तीर्य अमये स्वाहेत्यादि अमये स्विष्टकृते स्वाहेति च हुवा, प्राचीनावीती ‘शतायुधाय-ये चत्वार' इति हुत्वा पितृभ्य स्वाहा इत्यन्तं हुत्वा ! उपवीती . ग्रीष्मो हेमन्तः-इदुवत्सराय-भद्रां नश्श्रेय -इति, आयुष्प इत्यादिभिः त्रिभिराज्येन व्याहृत्यन्तं हुत्वा धरण्यां भूमौ पितृभ्यो बलिदानम्। िपतृभ्यो नम इति वलिं दद्यात् । 'आप्यायता मिति तालैरास्यमभिपूपऽऽचभ्य शिटैरन्त वैशे 'परमेष्यसी 'नि विकिरति ॥ ३ ॥ तण्डुलैः नवतण्डुलैः । वैशे प्रधानवंशे । तदेवं शालीनयायावरादिवृत्यन्तरमाश्रित्य गार्हस्थ्यं धर्म मनुतिष्ठतीति विज्ञायते ॥ ४ ॥ तत्-स्वपराभवनिवृतिकारणात् । 'कृताप्रयसंस्करास्सन्तो विगतकल्मषाः । नवाग्रयणपूजारिभ्यच्यः पितृदेवताः ॥ इति दोषनिवृत्तिकारणाद्वा। एवम् उक्तप्रकारेण । शालीनयायावरादि वृश्यन्तरमाश्रित्येत्यादि । उञ्छवृतिनापि कर्तव्यमित्यभिप्रायेणोक्तम् । इति श्रीमत्कौशिकवेश्येन गोविदाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासस्यज्वना विरचिते श्रीवैखानससूत्रल्याल्याने तात्पर्यचिन्तामणौ चतुर्थप्रक्षे द्वितीयः खण्डः ।