पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खपड:] श्रीवैखानसंगृह्यसूत्रम् ५३१ इत्यादिवचनैः स्थालीपाकः कार्यः । ननु –‘उपरागोऽधिमासो वा ? इत्यादिवचनानां व्यर्थता स्यादिति चेत् - न ! यस्मिन् काले विरोधीऽति ज्यौतिषागमयोः द्वयोः । ज्यैतिोक्तविधानेन श्रुतिचोदितमाचरेत् । । इति श्रेौतपराणि ! स्थालीपाकस्य दोषाभावस्मरणा । वचनात् िनषेधवचनानि 'अहंस्पतिरवन्तीषु संसः कोसलेषु च । अधिमासस्तु पाञ्चाले अन्यत्र न स दोषभाक् । । इत्यधिमासस्य देशान्तरविषयत्वात् न भासदोष । श्रावणमासादिषु क्बिाहश्चेत् स्थालीपाकक्रियां कुर्याद्विबाहादुत्तरायणे। इति क्वनात् श्रावणादीन् विहाय उत्तरायणे कर्तव्य । अल – “अतिकालान्तरारंभे यजमानश्च पाधकृत् 'नित्यानि हाफ्यन्ननस्वी भवति । इत्यादिवचनैः महान् दोष ! अत: 'उपरागोऽधिमासी वा ? इति वचनानि न सर्वसम्मतानि, किन्तु देशान्तरविषयाणि । यद्वा । 'नाहरेत्प्रथमा मिष्टि ? मित्युक्तत्वात् इष्टद्युपक्रमपराणि । न तु सार्तपराणि । अवषट्कारहोमांश्च पर्व चाग्रयणं तथा । मलमासेऽपि कर्तव्यं काम्या इष्टस्तु वर्जयेत् । ॥ इति स्मृत्यन्तरे- ‘। संवत्सरोक्तकालव्यतिक्रमे दिवसे कचित् आगमि पर्वणः पूर्वं स्थालीपाकं समाचरेत् । अर्हस्पतिमासाधिमासादयस्तथा ! ।। शुक्रे चास्तंगते जीवे बाल्ये वा वार्धकेऽपि वा । न दोषाय भवेत् सर्वे कर्तव्यं विचिोदितम् ? ॥ 'आषाढेऽप्यधिके मास ? इत्यादीनि वचनानि प्रारब्धस्थालीपाकविषया ीति केचिद्वदन्ति । तत्सत् । 'प्रारब्धे तु द्वितीयादावुक्तदोषो न विद्यत इति