पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः] श्रीर्वतानसगृह्यसूत्रम् ५२९ अतिकालन्तरारंभे यजमानश्च पापकृत् । आयुः श्रियं यशो हन्यात् तस्मातै नात्यतिक्रमेत् ।। आग्नेयस्थालीपाकादूर्व शेषहोमायूर्व पर्वसंभवेऽपि स्थालीपाकः कार्यः ।

  • यदा हि शेषमध्ये तु पर्वण्युत्पतिते सति ।

तस्मिन्नपि च कर्तव्यः स्थालीपाको यथाविधि ।। तत्र यद्यप्यमावास्या विवाहस्याप्यनन्तरम् । यदि वा पौर्णमासी स्यात् स्थालीपाकक्रिया मता ! ॥ इति शेषहोमात्परं दर्शश्चत् प्रथमं पौर्णमासीं यजेत् । पश्चात् दर्शस्थालीपाकः । स्मृत्यन्तरे – “पाकयज्ञस्य चारंभमन्वारंभणमेव च । पैौर्णमास्यां यजेत्पूर्वं दशै तु न कथञ्चन ! ॥ इति यावद्दर्श तावत् ौर्णमासीस्थालीपाकस्य कालत्वात् पौर्णमासीस्थालीपाकं कृत्वा दार्शिकमुक्तकाले कुर्यात् । गौतमः–“पौर्णमासेोपक्रमो दर्शपूर्णमासौ, दर्शश्चत् पूर्णमासेनेष्टाऽथ तत्कुर्यात् । अकुर्वन् पौर्णमासीमाकांक्षेदित्येके । प्रतिपदि पौर्णमासीममामपि सह न यजेतेति केचित् । 'दऽपि यजेते 'ति वचनात् ' इति । प्रतिपदि पूर्णमासस्थालीपाकं कृत्वा अन्तरं दार्शिकञ्च कुर्यात् । उपरागोऽधिमासो वा यत्र प्रथमपर्वणि । नाहरेत्प्रथमामिटिं संभवे(संमूढे) गुरुशुक्रयोः । स्थालीपाकक्रियां कुर्याद्विवाहादुत्तरायणे । पितृमासचतुष्केषु यदि कुर्यात् विनश्यति । आदर्शदर्शपूर्णेष्टयोः अन्निहोत्रस्य चादिकम्। प्रतिष्ठापनकर्माणि मलमासे विसर्जयेत् ॥ उपाकर्म च हव्यञ्च कव्यं पञ्चोत्सवं तथा । उत्तरे नियतः कुर्यान्मलमासे विसर्जयेत् | इति