पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-सात्पर्यचिन्तामणिसहितम् . [चतुर्थ प्रश्ने अपराहेऽथ वा रात्रौ यदि पर्व समाप्यते । उोप्य तस्मिन्नहनि श्रेोभूते याग इष्यते ? ॥ इति शातातपः– 'पूर्वाले मध्यमे चापि यदि पर्व समाप्यते । तदोपवासः पूर्वेद्युस्तदहर्याग इष्यते । प्रतिपत्पञ्चदश्योस्तु दिनपर्वदिनार्धत:() । न्यूनं चेच चतुर्थामागू नो चेत् परेऽहनि ! ।। इति कात्यायनः ‘न यष्टव्यं चतुर्थेऽशे यागैः प्रतिपदः कचित् । रक्षांसि तद्विलुपन्ति श्रतिरेषा सनातनी ॥ संधिश्चेत्संगवादूर्व प्राक्चेदान्तनाद्रवेः । पैौर्णमासीति विज्ञेया सद्यस्कालविधौ तिथिः ।। आदित्येऽस्तमिते चन्द्रः प्रतीच्यामुनियाचदा ! प्रतिपद्यनिवृत्तः स्यात्पञ्चदश्यां यजेत्तदा । प्रतिपद्याविष्टायां यदि चेष्टिस्समाप्यते । पुनः प्रणीय कृत्स्नेष्टिः कर्तव्या यागवित्तमैः ! ॥ इति प्रतिप्रसवमाह वृद्धशा तपः । 'सन्धिर्यद्यपराडे स्याद्यागः प्रातः परेऽहनि । कुर्वाणः प्रतिपद्भागे चतुर्थेऽपि न दुष्यति ? ॥ इति बोथायनः– ‘द्वितीया त्रिभुहूर्ता चेत् प्रतिपद्यापराह्निकी । अन्वाधानं चतुर्दश्यां परतस्सोमदर्शनात्' । इति इदं कात्यायनादिविषयम् ! प्रथमस्थालीपांकस्यारंभकालः स्मृत्यन्तरे दर्शित पाकयज्ञस्य चारंभमन्वरंभणमेव च। । पैौर्णमायां यजेयूर्व दंशे तु न कथंचन । मैौट्यादिमासदोषे तु पौर्णमास्यां यजेत्कथम् । दृशेऽपि वा यजेत्यूर्वं पौर्णमासीमामपि ।। ५२८४ [